SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विधेत्याह-विरागमार्गैकपदिका-विरागमार्गस्यैकोत्पादिका, जनिकेत्यर्थः । इयं प्रशमरतिरित्यर्थः । इति आर्याद्वयार्थः ॥ ७ ॥ न च असारत्वात् श्रुतवाक्पुलाकिकानां तत्संहरणरचिता सती सतामनादरणीयैव स्यादियमित्याह यद्यप्यवगीतार्था न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथाऽपि मय्यनुकम्पैकरसैरनुग्राह्या ॥ ८ ॥ यद्यपि वक्ष्यमाणदोषयुक्ता तथापि सद्भिरनुग्राह्येति सम्बन्धः । दोषाने वाह- अवगीतार्था - अनादरणीयाभिधेया, वर्तत इति | शेषः । तथा न वा कठोरप्रकृष्टभावार्था - नवेति निषेधे कठोरो - विबुधजनयोग्यो गम्भीर इत्यर्थः प्रकृष्टः - प्रधानो भावार्थ:पदाभिधेयो यस्यां सा तथा, अगम्भीरप्रधानभावार्थेत्यर्थः । यद्वा नवा - नूतना आधुनिककविकृतत्वात् तथा अकारप्रश्लेषात् न विद्यते कठोर प्रकृष्टभावार्थो यस्यां सा तथा । सद्भिः - सज्जनैः । तथापि - एवमपि । मयीति विषयभूतात्मनिर्देशः, अनुकम्पैकरसैः- दयाप्रधानमान सैरनुग्राह्या - अङ्गीकर्तव्या । इत्यार्यार्थः ॥ ८ ॥ इत्यभ्यर्थना कृता, यद्वा स्वभावत एव सन्तो दोषत्यागेन गुणानेव ग्रहीष्यन्तीत्यावेदयन्नाह— कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वाद्यन्यत् । दोषमलिनेऽपि सन्तो यद् गुणसारग्रहणदक्षाः ॥९॥ को ?–न कश्चिदित्यर्थः । अत्र - सौजन्यविचारे निमित्तं - कारणमन्यद् - इतरद् वक्ष्यति - भणिष्यति, वादी - जल्पाक इति योगः । कीदृशः ? - निसर्गमत्या स्वभावबुद्ध्या, सुनिपुणोऽपि, आस्तां अनीदृशः । यद् - यस्मात् सन्तः - सज्जनाः, गुणसारग्रहणदक्षाः - गुणस्वीकारकुशलाः, भवन्तीति शेषः । क्व ? - दोषमलिनेऽपि सदोषेऽपि, वस्तुनीत्यध्याहारः । स्वभावादेव दोषपरित्यागेन गुणग्राहिणः सत्पुरुषा भवन्तीति भावार्थः ॥ ९ ॥ Jain Educationational For Private & Personal Use Only सतामनु ग्राथता www.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy