________________
विधेत्याह-विरागमार्गैकपदिका-विरागमार्गस्यैकोत्पादिका, जनिकेत्यर्थः । इयं प्रशमरतिरित्यर्थः । इति आर्याद्वयार्थः ॥ ७ ॥ न च असारत्वात् श्रुतवाक्पुलाकिकानां तत्संहरणरचिता सती सतामनादरणीयैव स्यादियमित्याह
यद्यप्यवगीतार्था न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथाऽपि मय्यनुकम्पैकरसैरनुग्राह्या ॥ ८ ॥ यद्यपि वक्ष्यमाणदोषयुक्ता तथापि सद्भिरनुग्राह्येति सम्बन्धः । दोषाने वाह- अवगीतार्था - अनादरणीयाभिधेया, वर्तत इति | शेषः । तथा न वा कठोरप्रकृष्टभावार्था - नवेति निषेधे कठोरो - विबुधजनयोग्यो गम्भीर इत्यर्थः प्रकृष्टः - प्रधानो भावार्थ:पदाभिधेयो यस्यां सा तथा, अगम्भीरप्रधानभावार्थेत्यर्थः । यद्वा नवा - नूतना आधुनिककविकृतत्वात् तथा अकारप्रश्लेषात् न विद्यते कठोर प्रकृष्टभावार्थो यस्यां सा तथा । सद्भिः - सज्जनैः । तथापि - एवमपि । मयीति विषयभूतात्मनिर्देशः, अनुकम्पैकरसैः- दयाप्रधानमान सैरनुग्राह्या - अङ्गीकर्तव्या । इत्यार्यार्थः ॥ ८ ॥
इत्यभ्यर्थना कृता, यद्वा स्वभावत एव सन्तो दोषत्यागेन गुणानेव ग्रहीष्यन्तीत्यावेदयन्नाह— कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वाद्यन्यत् । दोषमलिनेऽपि सन्तो यद् गुणसारग्रहणदक्षाः ॥९॥
को ?–न कश्चिदित्यर्थः । अत्र - सौजन्यविचारे निमित्तं - कारणमन्यद् - इतरद् वक्ष्यति - भणिष्यति, वादी - जल्पाक इति योगः । कीदृशः ? - निसर्गमत्या स्वभावबुद्ध्या, सुनिपुणोऽपि, आस्तां अनीदृशः । यद् - यस्मात् सन्तः - सज्जनाः, गुणसारग्रहणदक्षाः - गुणस्वीकारकुशलाः, भवन्तीति शेषः । क्व ? - दोषमलिनेऽपि सदोषेऽपि, वस्तुनीत्यध्याहारः । स्वभावादेव दोषपरित्यागेन गुणग्राहिणः सत्पुरुषा भवन्तीति भावार्थः ॥ ९ ॥
Jain Educationational
For Private & Personal Use Only
सतामनु
ग्राथता
www.jainelibrary.org