SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पूर्वग्रन्थावयवता प्रशमरतिः तामेवोञ्छकवृत्तिमार्याद्वयेनाऽऽहहारि. वृत्तिः । है बहुभिर्जिनवचनार्णवपारगतैः कविवृषैर्महामतिभिः । पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपद्धतयः ॥५॥18 ॥२॥ बहुभिः-अनेकैर्जिनवचनार्णवपारगतैः-सर्वज्ञागमसमुद्रपर्यन्तप्राप्तैः कविवृषः-विशिष्टकविभिः महामतिभिः-विपुलबु| द्धिभिः, पूर्व-प्राक्तनकाले, अनेका-बयः, याः प्रथिता-अभिहिताः, कास्ता इत्याह-प्रशमजननशास्त्रपद्धतयः-उपशमोत्पादकग्रन्थपतय इति ॥५॥ किंचात इत्याहताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारम्पर्यादुच्छेषिकाः कृपणकेन संहृत्य ॥६॥ तद्भक्तिबलार्पितया मयाऽप्यविमलाल्पया खमतिशतया। प्रशमेष्टतयाऽनुसृता विरागमार्गकपदिकेयम् ॥७॥ ___ ताभ्यः पूर्वोक्तशास्त्रपद्धतिभ्यो विस्ता-गलिताः । का इत्याह-ताभ्यो विस्ताः श्रुतवाक्पुलाकिका-आगमवचनधान्यावयवभूताः, ताश्च मिथ्यादृष्ट्यागमसम्बन्धिन्योऽपि भवन्तीत्याह-प्रवचनाश्रिताः-जिनशासनानुसारिण्यः, काश्चिदेव, न सर्वाः, पारम्पर्यात्-गुरुपरम्परया, उच्छेषिका-उद्धृतशेषाः, स्तोकीभूता इत्यर्थः। ततस्ताः कृपणकेन-कुत्सितरङ्केणेव, मयेत्युत्तहै रेण सम्बन्धः। संहृत्य-मीलयित्वेति ॥६॥ ततः किं कृत्यमित्याह-तद्भक्ति'इत्यादि, तद्भक्तिबलार्पितया-श्रुतवाक्पुलाकिका-18 बहुमानसामर्थ्यलोकत(प्राप्त)या।मयेति कर्तृभूतात्मनिर्देशे। अपिशब्दोऽसूयाख्यापकः।किल मयापि अनुसृता विरागमार्गकप| दिकेति । अविमला-कलुषा, सा चासावल्पा च-स्तोका सा तथा तया । कया एवंविधया ?-अत आह-स्वमतिशक्त्या कारणभूतया, निजबुद्धिसामर्थेन, प्रशमेष्टतया-उपशमवल्लभतया हेतुभूतया, अनुसृता-तद्भक्त्यनुसारेण विहिता, का किं ॥२ ॥ Join Education For Private Personal Use Only Mutainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy