________________
A
अशक्यप्रवेशता
LSHARE
सम्बन्धः, यद्वा आधाराधेयरूपः सम्बन्धः, तत्र जिनशासनमाधारः, प्रशमरतिराधेया। अभिधेयं तु किञ्चिदिति पदसू. चितम् । इत्याद्वयार्थः ॥२॥
'जिनशासनात् किंचिद्वक्ष्य' इत्युक्तम् , अबहुश्रुतानां तु सकष्टस्तत्र प्रवेश इति सदृष्टान्तमार्याद्वयेनाहयद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं प्रवेष्टु तैर्दःखम् ॥३॥ श्रुतबुद्धिविभवपरिहीणकस्तथाऽप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छकमन्वेष्टुं तत्प्रवेशेप्सुः॥४॥ यद्यपीत्यादिना सकष्टस्तत्र प्रवेश इति प्रतिपादितम्, अनन्ता-अपर्यवसानास्ते च ते गमपर्ययार्थहेतुनयशब्दाश्च तथाविधाः एव रत्नानि-मणयस्तैराढ्यं-समृद्धं तत्तथा, तत्र गमाः-सदृशपाठाः, पर्याया-घटादिशब्दानां कुटादिरूपाणि नामान्तराणि, अर्थाः-शब्दानामभिधेयानि, हेतवः-अन्यथाऽनुपपत्तिलक्षणाः, नया-नैगमादयः, शब्दा-घटादयः । इत्येतत् किमित्याहसर्वज्ञशासनं-जिनागमस्तदेव पुरं-नगरम् , तत् प्रवेष्टु-अन्तर्गन्तुम् , अबहुश्रुतैः-अल्पागमैर्दुःख-सकष्टं, वर्तत इति शेषः॥२॥
श्रुतम्-आगमः, बुद्धिः-औत्पत्त्यादिका मतिः, ते एव सर्वकार्यसाधकत्वात् विभवो-धनं तेन परिहीणको-रहितः स तथाविधः सन् । तथापि-एवमपि, अहमपि कर्तृभूतात्मनिर्देशः। अशक्तिम्-असामर्थ्यम् , अविचिन्त्य-अविगणय्य, द्रमक ताइव-रङ्क इव, अवयवानाम्-अर्धधान्यानामुञ्छको-मीलनमवयवोच्छकस्तम्, अन्वेष्टुं-गवेषयितुम् , तस्मिन्-सर्वज्ञशासनपुरे,
प्रवेशः-अन्तर्भवनम् तत्रेप्सुः-अभिलाषुकस्तत्प्रवेशेप्सुः, वर्त इति शेषः । आर्याद्वयस्योपनयो यथा-यद्वगनाट्यपुरमन्तः प्रवेष्टुमविभवैः सकष्टं तद्वत्सर्वज्ञशासनमववोढुं सकष्टं वर्तत इत्याद्वयार्थः॥४॥
Jain Educati
o
nal
For Private Personel Use Only
r
w.jainelibrary.org