SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 1546 | मंगलादि. प्रशमरतिः नाभेयाद्याः सिद्धार्थराजसूनुचरमाश्वरमदेहाः। पञ्चनवदश च दशविधधर्मविधिविदो जयन्ति जिनाः ॥१॥ हारि. वृत्तिः | जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधूंश्च । प्रशमरतिस्थैर्यार्थ वक्ष्ये जिनशासनात् किश्चित् ॥२॥ | ॥१॥ नाभेयाद्या इति-नाभेरपत्यं नाभेयः-ऋषभनामा युगादिदेवः स आयो येषां तीर्थकृतां ते नाभेयाद्याः । सिद्धार्थो राजा तस्य सूनुः-तनयः स चरमः-पश्चिमो वर्धमानाभिधानो येषां ते सिद्धार्थराजसूनुचरमाः। चरमः-पर्यन्तवर्ती देहः-शरीरं येषां ते तथा । कियन्तः?-पञ्चनवदश च कृतद्वन्द्वसमासाः, चतुर्विंशतिरित्यर्थः, अन्ये तु पश्चादिषु त्रिष्वपि पदेषु प्रथमाबहुवचनं ददति इति । चः समुच्चये । दशविधधर्मविधि-क्षान्त्यादिदशप्रकारसदाचरणविधानं वक्ष्यमाणं विदन्ति-जानन्ति ते तथा । एवं विशेषणपश्चकयुताः किम् ?-जयन्ति-अतिशेरते । के ?-जिना-रागादिजेतार इति ॥१॥ एवमिह भरतजिनान्नमस्कृत्य सम्प्रति सामान्येन पञ्चपरमेष्ठिस्तुतिमाह-जिनेत्यादि, जिनाः पूर्वोक्तस्वरूपाः सिद्धाःसिद्धिं प्राप्ताः आचार्याः-पञ्चविधाचारनिरताः, उपाध्यायाः-सूत्रप्रदाः, अत्र द्वन्द्वसमासः, तान् प्रणिपत्य-नत्वा, सर्वसाधून्भरतादिक्षेत्रवर्त्यशेषयतीन् । चः समुच्चये । किञ्चिद्वक्ष्ये इति सम्बन्धः। किमर्थम् ?-प्रशमरतिस्थैर्यार्थ-उपशमप्रीतिनिश्चलतायै । वक्ष्ये-अभिधास्ये । कुत इत्याह-जिनशासनात्-सर्वज्ञागमात् । किश्चिद्-अल्पं, प्रशमरतिप्रकरणमिति तात्पर्यम् । तत्र सार्धाऽऽय॑या मङ्गलमभिहितम् , आर्याऽर्धेन तु सप्रतिज्ञं प्रयोजनादित्रयम् । तत्र प्रशमरतिस्थैर्यार्थमित्यनेन गुरुशिष्ययोरैहिकामुष्मिक प्रयोजनं प्रतिपादितम्, वक्ष्ये इति प्रतिज्ञा, जिनशासनादिति पदेन गुरुपर्वक्रमलक्षणः Gostus AUSTOS ॥१ ॥ R Jain Education ainelibrary.org For Private Personal Use Only a l
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy