SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः अवचूर्णी। क्षयोपशमाल्लाभो भवति, लाभान्तरायकर्मोदयाच्च न लभते किश्चित् , नित्यानित्यौ दीनतागवौं ॥८९॥ | परो-दाता गृहस्थादिस्तस्य दानान्तरायक्षयोपशमोत्था शक्तिः, स्वशत्यनुरूपं ददाति । दातुर्यदि चेतः-प्रसन्नता भवति, साधु प्रति गुणानुराग उपयोगः । वस्त्राहारादिना ॥९॥ __ ग्रहणं-बहूनामपि पृथक् पृथग्वदतामपि पृथक् पृथक् शब्दोपलब्धिः , उदाहणं-संस्कृतगद्यपद्यशब्दार्थाभिधानं, परस्मा इति शेषः । नवकृतयो-भिनवं स्वयमेव प्रकरणाध्ययनादिकं करोति, विचारणा-सूक्ष्मेषु पदार्थेष्वात्मकर्मबन्धमोक्षादिषु युक्त्यनुसारिणीजिज्ञासादि, अर्थावधारणमाचार्यादिवचनविनिर्गतस्य शब्दार्थस्य सकृदेव ग्रहणं, न द्वित्रिवारोच्चारणादिप्रयासः, आदिशब्दाद्धारणा परिगृह्यते । बुद्धेरङ्गानि शुश्रूषादीनि, तेषां विधिविधानमागमेन प्रतिपादनं, तस्य विधेर्विकल्पा|स्तेषु कियत्स्वनन्तैः पर्यायवृद्धास्ते क्षयोपशमजनितबुद्धिविशेषाः परस्परमनन्तैः पर्यायैर्वृद्धाः सर्वद्रव्यविषयत्वान्मतिश्रुतयोरित्येवं बुद्ध्यङ्गविकल्पेष्वनन्तभेदैवृद्धेषु सत्सु ॥ ९१॥ | पूर्वपुरुषा गणधरप्रभृतयश्चतुर्दशपूर्वधरादयो यावदेकादशाङ्गविदवसानाः, सिंहा इव सिंहाः, परीषहकषायकुरङ्गप्रतिहननात्, तेषां विज्ञानातिशयो-विज्ञानप्रकर्षः, स एव सागरः-समुद्रो, विस्तीर्णबहुत्वात्, अनन्तस्य भाव आनन्यं, श्रुत्वाविभाव्य, साम्प्रता-वार्तमानिकाः ॥ ९२॥ कुत्सितं प्रियं भाषणं चटुकर्म, उपकारो निमित्तं यस्य, चटुकर्मणो निमित्तं मातापितृसम्बन्धादिकं कृत्वा ॥ ९३ ॥ परजनप्रसन्नताजनितेन तेन स्पृश्यते ॥ ९४ ॥ ॥६५॥ JainEducati For Private Personal use only jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy