SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Jain Educati प्रकारेण स-आत्मा परिमृग्यः - अन्वेषणीय इति सम्बन्धः । कैः कृत्वा ? - अल्पत्वं च बहुत्वं च ते त्वप्रत्ययस्य प्रत्येकमभिसम्बन्धात्, ततः संयोगाश्चाल्पबहुत्वे च तानि तानि आद्यानि येषां तानि तथा तैः, तत्र संयोगतस्तावत् येन येन संयुक्तस्तेन तेन रूपेणात्मा विद्यते, येन न संयुक्तस्तेन न विद्यते, यथा नारको नरकगतिसंयोगेनैव विद्यते, न देवादिसंयो गेनेति, अल्पत्वं बहुत्वव्यतिरेकेण न भवति, बहुत्वं अल्पत्वेन च, अतः संतुलिते एव विचार्येते, ताभ्यामादिष्टः स्यादस्ति स्यान्नास्ति-सम्मूर्च्छजगर्भजभेदेनासंख्येयमनुष्यास्ते चाल्पे, तिर्यञ्चोऽनंताः एकेन्द्रियादिभेदेन ते च बहवः, ततस्तिर्यक्संख्यया मनुष्या न सन्ति, मनुष्यसंख्यया तिर्यञ्चो नेति । आदिग्रहणान्नामादिभिरप्यस्तित्वनास्तित्वे भावयितव्ये, कथं ?नैकशो- बहुभिः प्रकारैः । एतस्य जीवस्य स्वतत्त्वं सहजं स्वरूपं सर्वमेव- समस्तमपि किं ? दृष्टम् - उपलब्धं । कैः कृत्वा ?लक्षणैः- लक्ष्यते यैरात्मा तानि लक्षणानि - चिह्नानि तानि तथा तैः, तानि चामूनि - "चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी य । ईहा मई वियक्का जीवरस उ लक्खणा एए ॥ १ ॥ ॥ २०३ ॥ तथा अपरं लक्षणमाह-उत्पादः प्रादुर्भावः तेन, | स्वेन रूपेण वस्तुनां घटपटादीनां धर्माधर्मादीनां च पत्रादिनीलतावत्, विगमो - विनाशः प्रलयः तेषामेव, पत्रादिसाटवत्, | नित्यत्वं - स्थिरत्वं कालत्रयेऽप्यविनाशित्वं एतानि कृतद्वन्द्वानि विवक्षावशप्रापितभेदानि तत्त्वतो मनागप्यभिन्नानि समुदितानि लक्षणं - स्वरूपं यस्य तत्तथा । यदेवंविधं त्रिविधत्वमुक्तं तदस्ति - विद्यते सर्वमपि तथाहि - घटस्य घटरूपेणोत्पादः कुशूलादिरूपेण विनाशो मृद्रूपेण च सदैव नित्यत्वं, तथा पुंसः पुंस्त्वेनोत्पादः प्राक्तनरूपेण विनाशो जीवरूपेण धौव्यमिति । न चोत्पादे असति विनाशो नच विनाशे वा समुत्पादः, नहि घटाद्यनुत्पादे कुशूलादिविनाशो, न च कुशूलाद्यविनाशे घटाद्यु national For Private & Personal Use Only द्रव्यात्मादि www.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy