________________
प्रशमरतिः हारि. वृत्तिः
॥ ३९ ॥
Jain Education
असुखं असतं संप्राप्नोति - लभते । इतिरिह यथासंभव प्रदर्शनार्थः, न ह्योपशमिकक्षायिकयोरेते प्रायः सम्भवन्ति । एतानि स्थानादीनि कः कर्ता लभते अत आह— आत्मा - जीवः, सोऽष्टविकल्पः समासेनेति ॥ १९८ ॥ तानेवाह - द्रव्यं - द्रव्यात्मा कषाययोगी - कषायात्मा योगात्मा, एवमुपयोगादिष्वात्मा योज्यः, इत्यष्टविधा मार्गणा - अन्वेषणा तस्य - जीवस्येति ॥ १९९ ॥ एतानेव आर्याद्वयेनाह-- जीवाजीवानां - सचेतनाचेतनानां षण्णां द्रव्याणां यद्रव्यं-स्थित्यंशरूपं तदात्मा भण्यते, नहि तानि | ताद्रूप्यं कदाचन त्यजन्तीतिकृत्वा, सकषायिणां - कषायोपरक्तचेतनानां कषायात्मा - कषायप्रधान आत्मा - जीवो, मिथ्या|दृष्ट्या दिसूक्ष्मसम्परायान्तानां स ज्ञेयः, योगो-योगप्रधान आत्मा सयोगिनां त्रयोदशगुणस्थान ( पर्यन्त ) वर्तिनां ज्ञेयः, एतेषु यथासंभवं मनोवाक्कायभेदानां संभवात्, पुनरुपयोगः - साकारानाकाररूपः सर्वजीवानां - सिद्धानां संसारिणां चेति ॥ २००॥
ज्ञानं सम्यग्रदृष्टेः क्षायिकक्षायोपशमिकौपशमिकरूपत्रिविधस्य, नतु मिथ्यादृशः, दर्शनं - सामान्योपयोगरूपं, चतुर्विधमथ भवति सर्वजीवानां संसारिणां मुक्तानां च यथायोगं, चारित्रं विरतानां तु, न त्वसंयतानां, सर्व संसारिणां चेतनानां "संसारी चेतनो मतः” इति वचनात् भवस्थमुक्तानां चैतन्यवतामित्यर्थः, किं तद् ? - वीर्यमिति ॥ २०१ ॥ द्रव्यात्मेति यदुक्तं तत्किं तत्त्वत उतान्यथा?, अन्यथेत्याह- द्रव्यात्मेति यत्पूर्वमुक्तं सर्वद्रव्येषु तदुपचारतो-व्यवहाराच्छन्द निबन्धनात्, न तत्त्वतः, आत्मनो जीवरूपत्वात् सर्वद्रव्याणां जीवाजीवरूपत्वात्, किंतु स्वस्वरूपवाचके आत्मध्वनौ नयविशेषेण - सामा न्यग्राहिणा नयभेदेन गृह्यमाणे कथंचिदयमपि घटत इति । यत आत्मादेशात् - स्वरूपाभिधानादात्मा भवति भवत्यनात्मा चपरादेशात्, स्वपररूपापेक्षया सदसद्रूपं वस्तु, जैनानां प्रसिद्धमिदमिति ॥ २०२ ॥ सांप्रतं निगमयन्नाह - एवमनेक
For Private & Personal Use Only
द्रव्यात्मादि
॥ ३९ ॥
jainelibrary.org