SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः त्पादः, न च तौ मृत्त्वं विना, निर्मूलत्वात् , न च साऽपि तौ विना, पर्यायत्वाद् , गन्धादिविशेषरहितेन्दीवरवत् । तदेवं| ४ द्रव्यात्मादि हारि. वृत्तिः त्रितयं परस्परापेक्षं सत्त्वलक्षणमिति । अन्यथा-त्रितयं यदि नाभ्युपगम्यते किंत्वेकस्य द्वयोर्वा सत्त्वलक्षणत्वेऽभ्युपगम्यमाने दू यत्सत् तदसद्भवति, असद्वा-अविद्यमानं सद्भवति । यच्च सतोऽसद्भवनं असतो वा सद्भवनं तन्महालीकतां महाकर्मबन्धं च ॥४०॥ तस्य वादिन आवेदयतीत्युपेक्षणीयमिति । ननु च सैद्धान्तिका अपि क्वचिदुत्पादं क्वचिद्विनाशं क्वचिन्नित्यत्वं प्रतिपादयन्ति, तथाहि-"जिणपवयणउप्पत्ती" इत्यादि "सचट्ठाणाई असासयाई" इत्यादि "इयं दुवालसंगीन कयाई नासी" इत्यादि, अतस्तेषामप्ययं दोषः प्रसजतीत्येव, उच्यते, नायं तेषां दोषः, कुतः ?-अर्पितानर्पितविशेषात्-अर्पित-विशेषितं अनर्पितम्-अविशेषितं तद्रूपो विशेषस्ततः, तमादायेत्यर्थः, इदमत्र तात्पर्य-अर्पित-विशेषितं जिनप्रवचनं उत्पन्नमिति प्रवचनोत्पादोऽर्पितः, अनर्पितम्-अविशेषितं प्राक्तनजिनप्रणीतं तदतीतं, अर्थतस्तु ध्रुवं, घटे कुशूलविगमत्ववत् इति, वचनमुच्चार्य विगमध्रौव्यद्वयं नार्पितमिति । न पुनस्तेषामयमाशयः यथोत्पाद एवास्ति सर्वथा विगमध्रौव्यशून्यः, ननु कथमेकस्मिन् उक्तेऽन्यद्वयसद्भावो भवति ?, भवत्येव, कथं?, यथा हि पुरुषस्य भ्रातृपुत्रपितृव्याद्यनेकरूपसंभवेऽपि तत्कार्यकरणक्षमत्वेन केनापि भ्रातेत्युक्ते न पुनः पुत्रादित्वं तत्र नास्तीति, एवमत्रापि एवंविधविवक्षासद्भावात् , नान्यवादिनामिव जैनानां दोषः प्रादुर्भवति । केचन विद्वांसः सप्तभङ्गीसूचनद्वारेण व्याख्यान्तीमामार्या, सा च व्याख्यैवम्-उत्पाद:- ॥४०॥ उत्पत्तिः विगमो-विनाशो नित्यत्वं-ध्रौव्यमेतेषां द्वन्द्वस्तानि लक्षणं यस्य तत्तथा, यदेतल्लक्षणत्रयोपेतं तदस्ति सर्वमपि, अङ्गुलिवत्, यथा मूर्तत्वेनाङ्गुलिरवस्थिता ध्रुवा ऋजुत्वेन विनष्टा वक्रत्वेनोत्पन्नेति, एवं यदुत्पातादित्रयोपेतं तत्सर्वमस्ति, Jain Educatio n al For Private Personal use only Mr.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy