________________
प्रशमरतिः
भावमेदार
इदं च गन्धहस्तिना भणितमास्ते, तर्हि अज्ञानादीनि कथमौदयिके भावे ?, सत्यं, तत्कार्यत्वात्तेषामौदयिकता भावनीया। हारि. वृत्तिः
तथा अनादिपारिणामिको भावस्त्रिधा-जीवत्वं १ भव्यत्वं १ अभव्यत्वं १ चेति, नैते कर्मोदयाद्यपेक्षन्ते । तथा कर्मोपशमनि
मित्त औपशमिकः, सम्यक्त्वं १ चारित्रं २ चेति द्विविधः। तथा क्षयोत्थः-कर्मक्षयाज्जातः क्षायिकः, स नवभेदः केवल॥३८॥ ज्ञानं १ केवलदर्शनं १ दानलब्धिप्रभृतयः ५ सम्यक्त्वं १ चारित्रं १ चेति। तथा क्षयोपशमजः-क्षायोपशमिकः, सोऽष्टादश
| भेदो, मतिज्ञानादिज्ञानं चतुर्विधं ४ मत्यादि अज्ञानत्रयं ३ दर्शनं चक्षुरादि त्रिविधं ३ दानादिलब्धयः ५ सम्यक्त्वं १ चारित्रं १ संयमासंयमश्चेति १, तथा षष्ठश्च सान्निपातिकश्चेति, सन्निपातः-संयोगः स प्रयोजनमस्येति सान्निपातिकःसंयोगजो भावः, तत्र पञ्चभावानामौदयिकादीनां द्विकादिसंयोगेन पड्विंशतिर्भङ्गा भवन्ति, तत्र द्विकयोगः षष्ठः पारिणामिकक्षायिकरूपः सिद्धानामिति १, द्वितीयत्रिकयोगः औदयिकपारिणामिकक्षायिकलक्षणः केवलिनः २ तृतीयत्रिकयोग औदयिकपारिणामिकक्षायोपशमिकलक्षणः, स चतुर्गतिकजीवविषयः ३ चतुष्कसंयोगो द्वितीय औदयिकपारिणामिकऔपशमिकक्षायोपशमिकरूपश्चतुर्गतिकानां ४ तृतीयश्चतुष्कयोग औदयिकः पारिणामिकः क्षायिकः क्षायोपशमिकः, एषोऽपि चतुर्गतिकानामेव ५ मनुजानां तु पञ्चकयोगः-औदयिकः पारिणामिकः औपशमिकः क्षयोत्थः क्षायोपशमिकश्च ६, इति षडेव 8 भङ्गा यथोक्तसंख्या ग्राह्याः, घटमानत्वात् , न तु विंशतिरिति । तथा चोक्तम्-“दुगजोगो सिद्धाणं केवलिसंसारियाण तिगजोगो । चउजोगजुयं चउसुवि गईसु मणुआण पणजोगो ॥१॥” इति सिद्धसत्कद्विकयोगकेवलिसत्कत्रिकयोगकृतखण्डश्रेणिउपशमश्रेणिस्थितमनुष्यसत्कपञ्चकयोगगतिचतुष्टयद्वारागतद्वादशयोगमीलनेन पञ्चदश भवन्ति, अत्र चोक्तम्-“एक्केक्को
॥ ३८ ॥
Jain Educationtemphal
For Private & Personel Use Only
GAJainelibrary.org