________________
भावमेदाः
SCHALLERS
एतदेव व्यक्तीकुर्वन्नाहज्ञानाज्ञाने पञ्चत्रिविकल्पे सोऽष्टधा तु साकारः। चक्षुरचक्षुरवधिकेवलहग्विषयस्त्वनाकारः॥ १९५॥ ज्ञानं चाज्ञानं च ते तथा, यथासंख्येन पञ्चत्रिविकल्पे, तत्र ज्ञानं मतिज्ञानादि पञ्चधा, अज्ञानं तु मत्यज्ञानादि विधा, भवतीति शेषः। तत्राद्यपञ्चकं सम्यग्दृष्टेः इतरन्मिथ्यादृष्टेः, एवं राशिद्वयमीलने सोऽष्टधा-अष्टप्रकारः। कीदृशः?साकारो-विशेषग्राही । चक्षुर्दर्शनादिरनाकार:-सामान्यग्राही चतुर्धेति ॥ १९५ ॥
एते द्वादशोपयोगा भावाः, अतः प्रस्तावादन्यानपि भावानादर्शयन्नाहभावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव । औपशमिकः क्षयोत्थः क्षयोपशमजश्च पश्चेति ॥ १९६॥ ते त्वेकविंशतित्रिद्विनवाष्टादशविधास्तु विज्ञेयाः। षष्ठश्च सान्निपातिक इत्यन्यः पञ्चदशभेदः॥ १९७ ॥ भावाः-परिणतिविशेषाः, कस्य भवन्ति ?-जीवस्य जायन्ते । कीदृशाः?-औदयिकः पारिणामिकः औपशमिकः क्षायिकः क्षायोपशमिकश्च पञ्चैते, कर्मणामुदयोपशमक्षयक्षयोपशमनिवृत्ताश्चत्वारः, पारिणामिकस्तु जीवाजीवानां परिणतिरिति ॥१९॥ एतेषां क्रमेण भेदानाचष्टे ते पुनरेकविंशतिश्च त्रयश्च द्वे च नव चाष्टादश च ते तथा ते विधा-भेदा येषामिति समासो, विज्ञेया इति घटना । तत्र कर्मोदये भवः कर्मोदयनिवृत्तो वा (ग्रंथ ११००) औदयिकः स एकविंशतिभेदः, तत्र गतयो नारकाद्याश्चतुर्धा ४ कषायाश्चतुर्धा ४ लिङ्गत्रयं ३ मिथ्यात्वमेकप्रकारं १ अज्ञानं च १ असंयतत्वं च १असिद्धत्वं च १ लेश्याः षट्प्रकाराः६,एते गत्यादयःसर्वे कर्मोदयात्प्रादुर्भवन्ति, अत्र गतिग्रहणेन शेषभवोपग्राहिकर्म गृहीतं, कषायादिना घातिकर्म गृहीतं,
Jain Education
a
l
For Private & Personel Use Only
(
Mainelibrary.org