________________
प्रशमरतिः हारि. वृत्तिः
॥ ३७ ॥
Jain Education In
एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोक्तः स्थित्यवगाह [न] ज्ञानदर्शनादिपर्यायैः ॥ १९३॥ द्विविधाः । केन द्वैविध्येन ! - चराः - त्रसाः अचराः - स्थावराः पृथिव्यादयः एवमाख्या-नाम येषां ते तथा । तथा त्रिविधाः स्त्रीपुंनपुंसकाः- नारीनरषंढा ज्ञेयाः । तथा नारकतिर्यग्मानुषदेवाश्चतुर्विधाः प्रोक्ता इति व्यक्तमिति ॥१९१॥ पंचेति०, ०, पञ्चविधास्त्वेकेन्द्रियादयो निर्दिष्टाः, तथा क्षित्यादयः षड् भेदाः प्रसिद्धस्वरूपा इति ॥ १९२॥ सर्वजीवभेदानां व्याप्तिमाह — एवमिति ०, अत्र द्वितीयार्यार्थे चतुर्थगणः पश्चमात्रः पश्चमगणस्तु त्रिमात्रो, यथा ज्ञानदर्शनादिपर्यायैः, एवमेकोत्तरवृद्ध्याऽनेकविधानां - बहुभेदानां एकैको विधिः- एकैको भेदोऽनन्तपर्यायः - अनेकभेदः प्रोक्तः - तीर्थकरैः प्रतिपादितः । कैः कृत्वेत्याह-स्थितिः - काय - स्थानरूपा "अस्संखोसप्पिणी "त्यादिका आयुष्करूपा च " बावीसई सहस्सा" इत्यादिरूपा । अवगाहस्तु अङ्गुलासंख्येयभागमात्रादारभ्य यावत् समस्तलोकावगाहः, ज्ञानं वस्तुविशेषावबोधो, दर्शनं वस्तुसामान्यावबोधः, आदिशब्दाद्यथासंभवं चारित्रसुखवीर्यादिग्रहस्तेषां पर्याया-अवस्थाविशेषाः, धर्मा इत्यर्थः, ते तथा तैरिति ॥ १९३ ॥
अनन्तरं जीवा उक्ताः, अतः सामान्यं तल्लक्षणमाह-
सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥ १९४ ॥ सामान्यं खलु - साधारणमेव लक्षणं-चिह्नं सर्वजीवानां भवतीति योगः । यत्किमित्याह - उपयोगः - चेतना । उपयोगमेव स्पष्टयति- साकारो-विकल्परूपो ज्ञानोपयोगः तथा अनाकारः - तद्विपरीतो दर्शनोपयोगः । चः समुच्चये । अनयोर्भेदानाहसोऽष्टभेदश्चतुर्धा चेति यथासंख्येनेति ॥ १९४ ॥
For Private & Personal Use Only
| जीवभेदाः
॥ ३७ ॥
ainelibrary.org