SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्र. र. ७ Jain Education इदमेव वचनं संक्षेपत आह जीवाजीवाः पुण्यं पापास्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्त्या नव पदार्थाः ॥ १८९ ॥ जीवाः - चैतन्यलक्षणाः १ अजीवा - धर्मास्तिकायादयः २ अत्र द्वन्द्वः, पुण्यं वक्ष्यमाणं ३, पापमपि ४, एवमात्रवोऽपि ५ संवरोऽपि ६ अत्रापि द्वन्द्वः । सनिर्जरणा-निर्जरायुक्ता इत्यर्थः ७, बन्धः - कर्मोपादानं ८ मोक्षः - कर्माभावः ९, एते सम्यक् चिन्त्या नव पदार्था इति व्यक्तमिति । नन्वन्यत्रैते सप्त तत्त्वान्यभिहिताः कथमत्र नव पदार्था उक्ता इति ?, उच्यतेअन्यत्र पुण्यपापयोर्बन्धग्रहणेनैव ग्रहणं कृतं, इह तु तौ पृथग्विवक्षितौ इति न दोष इति ॥ १८९ ॥ (परस्परवैलक्षण्यभाजः सप्तेति तु तर्कः ) एतान् विवरीषुस्तावज्जीवानाह जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः । लक्षणतो विज्ञेया द्वित्रिचतुष्पञ्चषड्भेदाः ॥ १९० ॥ जीवा विज्ञेया इति योगः कीदृशाः ? - मुक्ताः सिद्धाः, तथा संसारिणो भवस्थाः । चः समुच्चये । तत्र संसारिणस्त्वनेकविधाः लक्षणतो विज्ञेयाः - चिह्नतो बोद्धव्याः, द्वित्र्यादयो भेदा येषां ते तथा, इति ॥ १९० ॥ प्रस्तावभेदा (वा) तू संसारिजीवा (वभेदा) नार्याद्वयेनाह - द्विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुंनपुंसका ज्ञेयाः । नारकतिर्यग्मानुषदेवाश्च चतुर्विधाः प्रोक्ताः ॥ १९९ ॥ पञ्चविधास्त्वेकद्वित्रिचतुष्पश्ञ्चेन्द्रियास्तु निर्दिष्टाः । क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति षड्भेदाः ॥ १९२॥ For Private & Personal Use Only पदार्थ वर्क jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy