SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्र. र. ७ Jain Education इदमेव वचनं संक्षेपत आह जीवाजीवाः पुण्यं पापास्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्त्या नव पदार्थाः ॥ १८९ ॥ जीवाः - चैतन्यलक्षणाः १ अजीवा - धर्मास्तिकायादयः २ अत्र द्वन्द्वः, पुण्यं वक्ष्यमाणं ३, पापमपि ४, एवमात्रवोऽपि ५ संवरोऽपि ६ अत्रापि द्वन्द्वः । सनिर्जरणा-निर्जरायुक्ता इत्यर्थः ७, बन्धः - कर्मोपादानं ८ मोक्षः - कर्माभावः ९, एते सम्यक् चिन्त्या नव पदार्था इति व्यक्तमिति । नन्वन्यत्रैते सप्त तत्त्वान्यभिहिताः कथमत्र नव पदार्था उक्ता इति ?, उच्यतेअन्यत्र पुण्यपापयोर्बन्धग्रहणेनैव ग्रहणं कृतं, इह तु तौ पृथग्विवक्षितौ इति न दोष इति ॥ १८९ ॥ (परस्परवैलक्षण्यभाजः सप्तेति तु तर्कः ) एतान् विवरीषुस्तावज्जीवानाह जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः । लक्षणतो विज्ञेया द्वित्रिचतुष्पञ्चषड्भेदाः ॥ १९० ॥ जीवा विज्ञेया इति योगः कीदृशाः ? - मुक्ताः सिद्धाः, तथा संसारिणो भवस्थाः । चः समुच्चये । तत्र संसारिणस्त्वनेकविधाः लक्षणतो विज्ञेयाः - चिह्नतो बोद्धव्याः, द्वित्र्यादयो भेदा येषां ते तथा, इति ॥ १९० ॥ प्रस्तावभेदा (वा) तू संसारिजीवा (वभेदा) नार्याद्वयेनाह - द्विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुंनपुंसका ज्ञेयाः । नारकतिर्यग्मानुषदेवाश्च चतुर्विधाः प्रोक्ताः ॥ १९९ ॥ पञ्चविधास्त्वेकद्वित्रिचतुष्पश्ञ्चेन्द्रियास्तु निर्दिष्टाः । क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति षड्भेदाः ॥ १९२॥ For Private & Personal Use Only पदार्थ वर्क jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy