________________
Jain Education
कामेभ्यो निवर्तनीं ३ निर्वेदन - भवत्रासान्मोक्षाभिलाषप्रवर्तिकां ४ इति चतुर्विधां धर्म्यं कथां कुर्यादिति, ख्यादिकथा ४ | दूरतस्त्याज्या इति सुगममिति ॥ १८३ ॥
अपिच
यावत् परगुणदोषपरिकीर्तने व्यावृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ १८४ ॥ यावतं कालं परेषां - आत्मव्यतिरिक्तानां गुणदोषयोः प्रतीतयोः परिकीर्तनं तत्र व्यावृतं - व्याकुलं मनः - अन्तःकरणं भवति तावद्वरं वर्तते इति शेषः । विशुद्धे ध्याने व्यग्रं मनः कर्तुमिति ॥ १८४ ॥
तच्च ध्यानमीदृशम् -
शास्त्राध्ययने चाध्यापने च संचिन्तने तथाऽऽत्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥ १८५ ॥
शास्त्राध्ययने च- आचारादिश्रुतपाठे अध्यापने च-पाठने, संचिन्तने, क्व ? - आत्मनि, पदव्यत्ययादात्मनि संचिन्तनेआत्मना शास्त्र चिन्तनिकायामित्यर्थः । धर्मकथने - धर्मदेशनायां । चकाराः समुच्चयार्थाः । सततम् - अनवरतं । यत्नः - आदरःसर्वात्मना - सर्वादरेण कार्यः - कर्तव्य इति ॥ १८५ ॥
शास्त्रशब्दस्य व्युत्पत्त्यर्थमाह
शास्त्रितिवाग्विधिविद्भिर्धातुः पापठ्यतेऽनुशिष्ट्यर्थः । त्रैङिति पालनार्थे विनिश्चितः सर्वशब्दविदाम् ॥ १८६॥ शास्थिति-‘शासु अनुशिष्टा’विति वागूविधिविद्भिः- चतुर्दश पूर्वधरैः धातुः पापठ्यते - अत्यर्थ पठ्यत इत्यर्थः । कीदृशः ? - अनु
For Private & Personal Use Only
ध्यानं
ainelibrary.org