________________
45
प्रशमरतिः ८ करः-परिचयः, कैः सह?-संविग्नैः-उद्यतविहारिभिः साधुभिः। तथा वैराग्ये-विरागतायां मार्गः-पन्थाः स तथा, तथा धर्मकथाहारि. वृत्तिः सन्तो-विद्यमाना भावा-जीवादिपदार्थाः, भावः-क्षायोपशमादिकः, तत्र धी:-बुद्धिः तस्याः स्थैर्यजनकानि-स्थिरतोत्पा
है चातुर्विध्यं दकानि भवन्तीति शेषः॥१८१॥ ॥३५॥
॥इति धर्माधिकारः॥ ___एतानि धर्मस्थैर्यजनकानीच्छता चतुर्विधा धर्मकथा अभ्यसनीयेत्याद्वयेनाहआक्षेपणिविक्षेपणि विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननी ॥१८॥ संवेदनी च निर्वेदनीं च धा कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपदकथाश्च दूरात् परित्याज्याः ॥ १८३ ॥8 ___ आक्षिपति-आवर्जयति-अभिमुखीकरोतीत्याक्षेपणिः कथा, विक्षिपति-परदर्शनात् क्षोदाक्षमत्वेन वैमुख्यमापादयति विक्षेपणिः। ततः समाहारद्वन्दः । ताम् कुर्यादिति वक्ष्यमाणार्याक्रियायोगः । इति कथाद्वयं २, अत्राणिप्रत्यय औणादिकः ।
ततः प्रत्यासत्त्या व्याख्या, तत्र विक्षेपण्या विमार्गेत्यादिना आक्षेपण्याः श्रोतृजनेत्यादिना च, ततो विमार्गा-मिथ्यामार्गा है मोक्षविपरीतास्तस्य बाधनं-दोषवत्त्वख्यापनं तत्र समर्थः-शक्तो विन्यासो-रचना यस्यास्तां, शृणोतीति श्रोता स चासौ है
जनश्च २ तस्य श्रोत्रमनसी-श्रवणचित्ते तयोः प्रसादो-हर्षो जन्यते यया सा तथा। जननी-मातुरिव हितकारिणी सदुपदे- ॥ ३५॥ शदायिनी स्वापत्यानां, तथैषाऽपि भव्यानामिति भावना । अन्ये त्वत्रार्यायां चत्वार्यपि पदानि प्रथमाविभक्त्यन्तानि व्याख्यान्ति । संवेदनीमित्यार्यायां कुर्यादितिक्रियायाः कर्मपदानि योजयन्ति ॥ १८२ ॥ संवेदनीं-नरकादिदुःखकथनेन
HOROSTOCKISHAHAR
HainEducation
For Private Personal use only
R
ainelibrary.org