SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ कलं अध्यात्मम्-अध्यात्मक्रियामागर्म वा विदन्ति-जानन्तीत्यध्यात्मविदः-तीर्थकरादयो मूग-गृद्धिं परिग्रहं वर्णयन्तिप्रतिपादयन्ति निश्चयतः-परमार्थतः, तस्मात्-ततः कारणाद्वैराग्येप्सोः-विरागताभिलाषिणः साधोराकिंचन्यं-मूछोरूपपरिग्रहपरिहारस्वभावं परः-प्रधानो धर्म इति ॥ १७८ ॥ __ अथास्य धर्मस्य फलमार्याद्वयेनाहदशविधधर्मानुष्ठायिनः सदा रागदोषमोहानाम् । दृढरूढघनानामपि भवत्युपशमोऽल्पकालेन ॥ १७९॥ ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान् । हन्ति परीषहगौरवकषायदण्डेन्द्रियव्यूहान् ॥१८॥ दशविधधर्मानुष्ठायिनः-क्षान्त्यादिदशधाश्रेय परिपालकस्य सदा-सर्वदा रागदोषमोहानां कृतद्वन्द्वानां दृढरूढघनानां, तत्र दृढा-दुर्भेदाः रूढाः-प्राप्तस्थैर्याः घना-बहुलाः तेषामपि भवत्युपशमोऽल्पकालेनेति व्यक्तं, साधोरिति प्रकृतमिति ॥ १७९ ॥ हन्तीति क्रिया। कः?-साधुरिति शेषः। कान्?-परीषहादीन् कृतद्वन्द्वान् पूर्वोक्तस्वरूपान् । कीदृशान् ?अतिदुर्जयान्-अतीव दुःखाभिभवनीयान् । उद्धताः-सावष्टम्भाः प्रबलाः-प्रकृष्टसामर्थ्याः, ततः पदत्रयस्य कर्मधारयः तान् । कुतः१-ममकाराहङ्कारत्यागात् पूर्वव्याख्यातादिति ॥ १८०॥ - यथा वैराग्यस्थैर्य स्यात्तथा यतेतेत्याहप्रवचनभक्तिः१ श्रुतसंपदुद्यमो२व्यतिकरश्च संविग्नः३।वैराग्यमार्ग१सद्भावरभावधीस्थैर्यजनकानि ॥१८१॥ प्रवचनभक्तिः-चतुर्विधसङ्घप्रीतिः । तथा श्रुतसंपदि-विशिष्टागमसम्पत्तावुद्यमः-पठनादावुत्साहः स तथा । तथा न्यात स्थैर्याः पनालापालकस्य सदा-सर्वदा कायदण्डेन्द्रियव्यूहान ॥ Jain Education a l For Private Personel Use Only Korijainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy