SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि. वृत्तिः ॥ ३४ ॥ Jain Education Int वर्तनं भिक्षा तस्याः संक्षेपणं- मयैतावत्सु गृहादिषु भिक्षा अद्य ग्राह्या ३ । रसत्यागो - दुग्धादिपरिहारः ४ । कायक्लेशः - केशोत्पाटनादिः ५ । संलीनता - इन्द्रियनोइन्द्रियसंवृतत्वं ६ । बाह्यं तपः प्रोक्तं इति ॥ १७५ ॥ अथाभ्यन्तरमाह - प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमभ्यन्तरं भवति ॥ १७६ ॥ प्रायश्चित्तं-कृताती चारस्यालोचनादिदानं दशधा १ । ध्यानं चतुर्धा, तत्रार्तरौद्रत्यागेन धर्मशुक्लध्यानविधानं, ततः पदद्वयस्य द्वन्द्वः २ | वैयावृत्त्यविनयौ - गुरुभक्तदानादि ३ । गुर्वभ्युत्थानादिकरणरूपौ ४ । तथोत्सर्गः - कायोत्सर्गः ५ । स्वाध्यायोवाचनादिः पञ्चधा ६ । इति तपः षट्प्रकारमाभ्यन्तरं भवतीति ॥ १७६ ॥ ब्रह्म प्राह दिव्यात् कामरतिसुखात्रिविधं त्रिविधेन विरतिरिति नवकम्। औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ॥ १७७ दिव्यात्-भवनपत्यादिदेवीसम्भवात् कामरति सुखात् - मदनासक्तिसातात्, त्रिविधं त्रिविधेन मनसा न करोति न कारयति नानुमन्यते एवं वाचा कायेन चेति विरतिरिति नवकं, औदारिकादपि मानुषतिर्यक् स्त्रीसम्भवात् विरतिरिति नवकं, तथा तद्ब्रह्माष्टादशविकल्पमिति ॥ १७७ ॥ आकिंचन्यमाह - अध्यात्मविदो मूर्च्छा परिग्रहं वर्णयन्ति निश्चयतः । तस्माद्वैराग्येप्सोराकिंचन्यं परो धर्मः ॥ १७८ ॥ For Private & Personal Use Only ब्रह्माकिं• चन्ये ॥ ३४ ॥ inelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy