________________
बान्धवाः-स्वजनाः धनं-कनकादि इन्द्रियसुख-शब्दादिसातं तानि तथा तेषां त्यागः। तस्मात्किमित्याह-साधुः- त्यागसत्ययतिर्भवतीति शेषः। कीदृशः?-त्यक्तभयविग्रहः-परिहृतभीतिकलहः, तथा त्यक्तो-विषयादिपरिहारेण परिहृत आत्मा- तपांसि स्वदेहो येन स तथा, निर्ग्रन्थः-परिहतद्रव्यः, तथा त्यक्ताहंकारममकार इति प्राग्वदिति ॥ १७३ ॥
सत्यमाहअविसंवादनयोगः कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१७४॥ विसंवादनम्-अन्यथा स्थितस्यान्यथात्वभाषणं, गां अश्वं अन्वं गामिति भाषते, तेन योगः-सम्बन्धो, न विसंवादनयोगोऽविसंवादनयोगः, सत्यं यथादृश्यमानवस्तुभाषणं, तथा कायमनोवाचामजिह्मता-अकुटिलतेति समासः । सत्यं चतुर्विधं जिनवरमतेऽस्ति नान्यत्रेति व्यक्तम् ॥ १७४ ।।
तप आह
अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥ १७५॥ तत्र देशतोऽनशनं चतुर्थभक्तादि षण्मासान्तं, तथा अपरं सर्वतो भक्तप्रत्याख्यानमिगिनीमरणं पादपोपगमनं चेति । ऊनोदरता-द्वात्रिंशत्कवलेभ्यो यथाशक्ति न्यूनयत्याहारं यावदष्टकवलाहारः २, अत्र गाथा-"अप्पाहार ८ अवड्डा १२|| (ग्रंथ १०००) दुभाग १६ पत्ता २४ तहेव किंचूणा ३१ । अट्ठदुवालससोलसचउवीस तहेक्कतीसा य ॥१॥" वृत्तिः
CROSISRUSSIOSESSIOS
Jain Education
a
l
For Private & Personel Use Only
K
ainelibrary.org