SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आर्जवशौचसंयमा: प्रशमरतिः हारि.वृत्तिः ॥३३ ॥ SARKARISRANA यत् नानार्जवो-मायावान् विशुध्यति, न च धर्ममाराधयति-निष्पादयत्यशुद्धात्मा-संक्लिष्टजीवो, धर्माहते न मोक्षोधर्म विना न मुक्तिः, ऋते अत्रापि योगात् मोक्षाहते परमं सुखं नास्ति न विद्यतेऽन्यदिति ॥ १७॥ शौचमाहयद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद् भवति भावशौचानुपरोधाद्यत्नतः कार्यम् ॥१७॥ यच्छौचं द्रव्योपकरणभक्तपानदेहाधिकारकं तद्भवति कार्य भावशौचानुपरोधादिति सम्बन्धः। तत्र द्रव्यरूपं-पुद्गलात्मकं तच्च तदुपकरणं च-रजोहरणादि तच्च भक्तपाने च देहश्च तथा, तानाश्रित्याधिकारो-गोचरो यस्य तत्तथा। अयमत्र भावार्थः-एतान्युपकरणादीनि समस्तान्यशुच्यादिना रुधिरादिना(वा)खरण्टितानि प्रक्षालनीयानि, पूर्वयतिवरैरेवं कृतत्वाद् , भावशौचानुपरोधात्-संयमाक्षतेरिति ॥ १७१॥ संयममाहपञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिर्जयः(ग्रहः)कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१७२॥ पञ्चभ्यः प्राणातिपातादिभ्यः आस्रवः-कर्मग्रहणं तस्माद्विरमणं-विरतिः, पञ्चेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिश्चेति | M पदत्रयमपि सुगमम् । संयमः सप्तदशभेदः, पृथिव्यादिरक्षणरूपो वेति ॥ १७२ ॥ त्यागमाहबान्धवधनेन्द्रियसुखत्यागात्त्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थस्त्यक्ताहंकारममकारः ॥ १७३ ॥ ॥३३॥ Jain Education For Private & Personel Use Only M ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy