SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Jain Education सेव्यः - आसेवनीयः एष धर्मविधिः - क्षान्त्यादिपुण्यविधानं, कथमिति ?, एवंप्रकारः, क्षान्तिः - कोपाभावः मार्दवं मानविजयः । आर्जवं च शौचं च ते तथा, तत्रार्जवं - मृदु (ऋजुता शौचं - संयमनिर्लेपता अदत्तादान परिहारो वा । चः समुच्चये । संयमत्यागौ, तत्र संयमः - सप्तदशभेदः त्यागस्तु द्रव्यभावग्रन्थत्यजनं ततो द्वन्द्वस्तौ सेन्यौ, सत्यादिपदचतुष्टयस्येतरेतरयोगः, तत्र सत्यं - मृषावर्जनं तपः - अनशनादि ब्रह्म-मैथुननिवृत्तिः आकिंचन्यं - निष्परिग्रहत्वं एतानि सेव्यानीति ॥ १६७ ॥ क्षान्तेः प्राधान्यदर्शनार्थमाह धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥१६८॥ धर्मस्य दशप्रकारस्य दया मूलं । न चाक्षमावान् दयां समाधत्ते - करोति । तस्मात् यः क्षान्तिपरः स साधयत्युत्तमं धर्ममिति ॥ १६८ ॥ मार्दवमाह विनययत्ता गुणाः सर्वे विनयश्च मार्दवायत्तः । यस्मिन् मार्दवमखिलं स सर्वगुणभाकूत्वमाप्नोति ॥ १६९ ॥ विनयायत्ता-गुर्वभ्युत्थानाद्यधीना गुणा-ज्ञानादयः सर्वे, विनयश्च मार्दवायत्तो - मृदुत्वाधीनो, यस्मिन् मार्दवमखिलंसमस्तं स प्राणी सर्वगुणभाक्त्वं समस्तज्ञानाद्याश्रयतामाप्नोति-लभते, तस्मान्मार्दवं कार्यमिति ॥ १६९ ॥ आर्जवमाह नानार्जवो विशुध्यति न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो मोक्षात् परमं सुखं नान्यत् ॥ १७० ॥ For Private & Personal Use Only क्षान्तिमा देवे jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy