________________
Jain Education
सेव्यः - आसेवनीयः एष धर्मविधिः - क्षान्त्यादिपुण्यविधानं, कथमिति ?, एवंप्रकारः, क्षान्तिः - कोपाभावः मार्दवं मानविजयः । आर्जवं च शौचं च ते तथा, तत्रार्जवं - मृदु (ऋजुता शौचं - संयमनिर्लेपता अदत्तादान परिहारो वा । चः समुच्चये । संयमत्यागौ, तत्र संयमः - सप्तदशभेदः त्यागस्तु द्रव्यभावग्रन्थत्यजनं ततो द्वन्द्वस्तौ सेन्यौ, सत्यादिपदचतुष्टयस्येतरेतरयोगः, तत्र सत्यं - मृषावर्जनं तपः - अनशनादि ब्रह्म-मैथुननिवृत्तिः आकिंचन्यं - निष्परिग्रहत्वं एतानि सेव्यानीति ॥ १६७ ॥ क्षान्तेः प्राधान्यदर्शनार्थमाह
धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥१६८॥ धर्मस्य दशप्रकारस्य दया मूलं । न चाक्षमावान् दयां समाधत्ते - करोति । तस्मात् यः क्षान्तिपरः स साधयत्युत्तमं धर्ममिति ॥ १६८ ॥
मार्दवमाह
विनययत्ता गुणाः सर्वे विनयश्च मार्दवायत्तः । यस्मिन् मार्दवमखिलं स सर्वगुणभाकूत्वमाप्नोति ॥ १६९ ॥ विनयायत्ता-गुर्वभ्युत्थानाद्यधीना गुणा-ज्ञानादयः सर्वे, विनयश्च मार्दवायत्तो - मृदुत्वाधीनो, यस्मिन् मार्दवमखिलंसमस्तं स प्राणी सर्वगुणभाक्त्वं समस्तज्ञानाद्याश्रयतामाप्नोति-लभते, तस्मान्मार्दवं कार्यमिति ॥ १६९ ॥
आर्जवमाह
नानार्जवो विशुध्यति न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो मोक्षात् परमं सुखं नान्यत् ॥ १७० ॥
For Private & Personal Use Only
क्षान्तिमा
देवे
jainelibrary.org