________________
प्रशमरतिः हारि. वृत्तिः
निर्जरालोकभावने
॥३२॥
तस्मात परीषहेन्द्रियगौरवगणनायकान् कषायरिपून् । क्षान्तिबलमार्दवार्जवसन्तोषैः साधयेद्धीरः ॥१६५॥ संचिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतुं च । त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्ये ॥ १६६॥
तां-बोधिं दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः-देशविरतिः सर्वविरतिश्च अथ कुतो दुष्प्रापा विरतिरित्याहमोहाद्-अज्ञानात् , तथा रागात्-पत्त्यादिस्नेहरागात्, कापथविलोकनात्-कुत्सितमार्गचित्तविभ्रमात् , गौरववशाच्च-ऋद्धिरससातायत्ततायाश्चेति॥१६३॥ दुष्पापां तां विरतिं प्राप्य ततः किं कार्यमत आह-तत्-पूर्वोक्तस्वरूपं विरतिरेव रत्नं २ तत् प्राप्य-लब्ध्वा विरागमार्गस्य-विरागतापथस्य विजयः-परिचयोऽभ्यसनं स तथा, किं?-दुरधिगम्यो-दुष्प्रापः। केनेत्याहइन्द्रियादयः प्रतीतार्थास्त एव सपत्ना-वैरिणस्तैर्विधुरः-आकुलीकृतस्तेनेति ॥१६४॥ तस्मात् कषाया एव रिपवारतान्। कीडशान् ?-परीपहेन्द्रियगौरवाणां गणः-समूहस्तस्य नायकास्तान्, गणशब्दः प्रत्येकमभिसम्बध्यते। साधयेत्-विजयेत। कः?धीर:-बुद्धिमान्। कैरित्याह-शान्तिबलादिभिरिति व्यक्तम् ॥१६५॥ संचिन्त्य-आलोच्य । केषाम् ?-कषायाणां । किं तत् ?उदयनिमित्तं-प्रादुर्भावकारणमुपशान्तेर्हेतुः-कारणं स तथा तं च, तयोः परिहारासेवने कार्य, अयमर्थः-कषायाणामुदयनिमित्तं परिहार्यमुपशान्तिहेतुरासेवनीयः । कथं?-त्रिकरणशुद्धं यथा भवति कायवाड्मनोनिर्दोष, अपिरभ्युच्चय इति ॥१६६॥
॥इति भावनाधिकारः॥ अथ दशविधधर्म उद्देशनिर्देशाभ्यामभिधीयतेसेव्यःक्षान्तिार्दवमाजवशौचे च संयमत्यागौ। सत्यतपोब्रह्माकिंचन्यानीत्येष धर्मविधिः॥१६७॥
| ॥३२॥
Jain Education
a
l
For Private Personel Use Only
ainelibrary.org