________________
Jain Education I
1
मरणे समनुभूते, नास्त्येकोऽप्याकाशप्रदेशो यत्र न जातं न मृतं वा मयेति । रूपिद्रव्योपयोगांश्च-रूपाणि च तानि द्रव्याणि च - परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि तेषामुपयोगाः - परिभोगाः (णामाः) मनोवाक्कायादिभिः कृतास्तांश्च । न च तैस्तृप्त इति चिन्तयेदिति ॥ १६० ॥
स्वाख्यातधर्मभावनामाह
धर्मोऽयं खाख्यातो जगद्धितार्थं जिनैर्जितारिगणैः । यत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः ॥ १६९ ॥ इति व्यक्तम् ॥ १६९ ॥
दुर्लभवोधिकभावनामाह —
मानुष्यकर्मभूम्यार्यदेशकुलकल्पताऽऽयुरुपलब्धौ । श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लभा बोधिः ॥ १६२ ॥ मानुष्यं-नरत्वं कर्मभूमिः-भरतादि पञ्चदशधा आर्यदेशो - मगधादिः कुलं - उग्रादि कल्पता - नीरोगता आयुः - दीर्घायुष्कं तेषां षण्णां कृतद्वन्द्वानामुपलब्धिः - प्राप्तिस्तत्र, तथा श्रद्धा च धर्मजिज्ञासा कथकश्च - आचार्यादिः श्रवणं च - आकर्णनं तानि २ तेष्वप्येतेषु नवस्वप्युत्तरोत्तरदुष्प्रापेषु दुर्लभा बोधिः- दुष्प्रापः सम्यक्त्वलाभ इति ॥ १६२ ॥
अथ स रागादिविजय दशविधधर्मासेवनद्वारेण साध्य इति विभणिषुस्तमन्वयव्यतिरेकाभ्यामाह-तां दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः । मोहाद्रागात् कापथविलोकनाद् गौरववशाच्च ॥ १६३ ॥ तत् प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगम्यः । इन्द्रियकषायगौरव परीषहसपत्नविधुराणाम् (रेण )|| १६४||
For Private & Personal Use Only
धर्मखा
ख्यातता
बोधेदल
भ्यं च
ainelibrary.org