________________
प्रशमरतिः
हारि. वृत्तिः
॥ ३१ ॥
Jain Education
यत्तदोर्नित्याभिसम्बन्धात् संवरः- आस्रवनिरोधलक्षणश्चिन्त्यः- चिन्तनीयो भवति । या किमि (के) त्याह- या वृत्तिः - व्यापारः, पाठान्तरे गुप्तिः - गोपनं । कीदृशी ? - वाक्कायमानसी, एतद्भावात्, का ? - अग्रहणे - अनुपादाने । कयोः ? - पुण्यं कर्म - सातादिद्विचत्वारिंशद्भेदं पापं कर्म-ज्ञानावरणीयादि व्यशीतिभेदं, उभयमपि वक्ष्यमाणं, ततो द्वन्द्वः, तयोरग्रहणं च संवृतास्रवद्वारस्य भवति, ततो न पुण्यमादत्ते, न पापमिति । कीदृशः संवरः ? - सुसमाहितः - सुष्वात्मन्यारोपितः । तथा हित आयत्यां । तथा वरदाः - तीर्थकरास्तैर्देशितः - कथित इति समासः ॥ १५८ ॥
निर्जराभावनामाह—
यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥ १५९ ॥
यद्वद् यथा शोषणात्-लङ्घनादिकाद् यत्लेन - महादरेण उपचितोऽपि - पुष्टोऽपि ज्वरादिदोषो जीर्यते-हानिं याति, दृष्टान्तः । दान्तिक माह - तद्वत्-तथा कर्म - ज्ञानावरणादिकमुपचितं - बद्धादि निर्जरयति - क्षपयति संवृतो - निरुद्धास्रवद्वारो जीवः । केन ? - तपसा - अनशनादिनेति ॥ १५९ ॥
लोकभावनामाह
लोकस्यास्तिर्यग विचिन्तयेदूर्ध्वमपि च बाहल्यम् । सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च ॥ १६० ॥ लोकस्य-जीवाजीवाधारक्षेत्रस्याधस्तिर्यगूर्ध्वमपि च बाहल्यं विस्तरं विचिन्तयेत् । तत्राधः सप्तरज्जुप्रमाणो लोकः, तिर्यग् रज्जुप्रमाणः, ऊर्ध्वं ब्रह्मलोके पञ्चरज्जुप्रमाणः, पर्यन्ते रज्जुप्रमाणः, चशब्दादूर्ध्वाधश्चतुर्दशरज्जुप्रमाणः । सर्वत्र जन्म
For Private & Personal Use Only
निर्जरालोकभावने
॥ ३१ ॥
jainelibrary.org