SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्र. र. ६ | आद्युत्तरकारणाशुचित्वाच्च, कारणशब्दस्य प्रत्येकं योजनाद् आदिकारणोत्तर कारणयोरशुचित्वात्, तंत्रादिकारण शुक्रशोणितादि उत्तरकारणं तु जनन्याऽभ्यवहृतस्याहारस्य रसहरण्योपनीतस्य रसस्यास्वादनमत्यन्ताशुचिरिति ॥ १५५ ॥ संसारभाव नामधिकृत्याह - माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ १५६ ॥ माता भूत्वा दुहिता - पुत्रिका भवति । तथा भगिनी च-सहोदरी भार्या भवति । क्व ? - संसारे । तथा ब्रजति - याति । सुतः पुत्रः । कां ? - पितृतां - जनकत्वं भ्रातृतां बन्धुत्वं । पुनः शत्रुतां वैरित्वं चैवेति ॥ १५६ ॥ आस्रवभावनामुररीकृत्याह मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथाssस्रवकर्मणि यतेत तन्निग्रहे तस्मात् ॥ १५७॥ मिथ्यादर्शनादयः पञ्चापि पूर्वोक्ताः । यच्छन्दः पञ्चस्वपि योज्यः । ततो मिथ्यादृष्टिर्यो जीवः तथा अविरतः प्रमादवान् । रुचिशब्दोऽपि प्रत्येकं योज्यः । ततः कषायरुचिर्दण्डरुचिः । तस्य जीवस्य आस्रवकर्मणि-कर्मास्रवे सति तथा तेन प्रकारेण तन्निग्रहे - आस्रवनिग्रहे यतेत - यत्नं कुर्वीत, यतिरिति शेषः । यत्तदोर्नित्याभिसम्बन्धात् यथाऽऽस्रवविशेषा न भवन्तीत्यर्थः । कस्मात् ? - तस्माद्भावनाबलादिति ॥ १५७ ॥ संवरभावनामाह या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः ॥ १५८ ॥ Jain Education International For Private & Personal Use Only संसाराश्रवसंवराः www.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy