________________
प्रशमरतिः हारि. वृत्तिः
॥ ३० ॥
Jain Education In
एकत्व भावनामाह
एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥ १५३ ॥
एकस्य जीवस्य जन्ममरणे भवत इति शेषः । तथा गतयश्च शुभाशुभाः, तत्र देवमनुष्यगती शुभे नरकतिर्यग्गती अशुभे भवतः । क्व ? - भवावर्ते -संसारे पुनः पुनभ्रमणे । तस्मादाकालिकं - सदाभावि हितं - पथ्यमेकेनैव जीवेनात्मनः - स्वस्य कार्यकरणीयं तच्च हितं संयमानुष्ठानमित्यर्थ इति ॥ १५३ ॥
अन्यत्वभावनामाह
अन्योऽहं खजनात्परिजनाच्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरियं न बाधते तं हि शोककलिः ॥ १५४॥ न बाधतेन पीडयति । कः ? - शोककलिः - कलिकालस्वरूपं, कं ? - तं जीवम् । हिशब्दः स्फुटार्थो, यस्य नियता- निश्चिता, काऽसौ ? - मतिः- बुद्धिरियमेवेति अन्यतोल्लेखेन, अन्योऽहं ( ग्रं० ९०० ) स्वजनात् पित्रादेः परिजनाद्-दासादेर्विभवात्कनकादेः शरीराद्-देहात् एतेभ्यो भिन्नोऽहमिति ॥ १५४ ॥
अशुचित्वमाह
अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ॥ १५५ ॥ भवति - जायते चिन्त्यः - चिन्तनीयः । कः ? - अशुचिभावः - जुगुप्सनीयत्वं । क्व ? -स्थाने स्थाने - शिरःकपालादिषु । कस्य ? - देहस्य-तनोः । कस्मात् ? - अशुचिकरणसामर्थ्यात्, शुचिनोऽपि द्रव्यस्य कर्पूरादेरशुचिकरणसामर्थ्यमस्त्येव । तथा
For Private & Personal Use Only
एकत्वान्य
त्वाशुचित्वानि
11 30 11
nelibrary.org