SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education मशुचिरूपत्वात् ५ संसार इति भवभावना 'माता भूत्वा' इत्यादिका ६ कर्मास्रवश्च संवरश्च २ तयोर्विधिः, तत्र कर्मास्रवविधिना आस्रवद्वाराणि विवृतानि कर्मास्रवन्तीति भावयेत् ७ संवर विधेश्वास्रवद्वाराणां स्थगनमिति ८ ॥ १४९ ॥ सुष्वाख्यातः स्वाख्यातो धर्मश्चासौ स्वाख्यातश्च २, निर्जरणं लोकविस्तरश्च धर्मस्वाख्यातश्च २ तेषां तत्त्वचिन्ताश्च २, तत्र निर्जरणंतपसा कर्मक्षपणं ९ लोकविस्तरो - लोकायामादिः १० धर्मस्वाख्यातश्च - शोभनोऽयं धर्मो भव्यहिताय जिनैः कथितः, एषां | तत्त्वचिन्तनानि ११ बोघे ः सुदुर्लभत्वं चेति १२ भावना द्वादश विशुद्धा इति स्पष्टम् ॥ १५० ॥ तत्रानित्यत्वमाह इष्टजनसंप्रयोगर्द्धिविषयसुखसंपदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥ १५१ ॥ इष्टजनसंप्रयोगश्च ऋद्धिसम्पच्च विषयसुखसम्पञ्च २, सम्पच्छन्दः प्रत्येकं सम्बध्यते, ता अनित्याः, तथा आरोग्यादीनि सर्वाण्यनित्यानीति ॥ १५१ ॥ अशरणभावनामाह - जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥ १५२ ॥ लोके क्वचिन्नास्ति शरणमिति योगः । कीदृशे ? - अभिद्रुते - अभिभूते । कैः ? - जन्मजरामरणेभ्यो भयानि २ तैः, तथा व्याधिवेदनाग्रस्ते । ततः किं ? - नास्ति न विद्यते । किं तत् ? - शरणं त्राणं । क्व ? - अन्यत्र । कस्मात् ? - जिनवरवचनात् - सर्वज्ञागमादिति ॥ १५२ ॥ For Private & Personal Use Only lainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy