________________
प्रशमरतिः हारि. वृत्तिः
॥ २९ ॥
Jain Education
प्रकारैः केन ? - यतिना - साधुना, न-नैव आत्मा च परश्चोभयं च २ तेषां बाधकं - दुःखकारकमिह - इह लोके यत् परतश्चपरलोके सर्वाद्धं-सकलकालमिति ॥ १४७ ॥
इत इन्द्रियनियन्त्रणमाचष्टे -
सर्वार्थेष्विन्द्रियसंगतेषु वैराग्यमार्गविघ्नेषु । परिसंख्यानं कार्यं कार्यं परमिच्छुना नियतम् ॥ १४८ ॥ सर्वार्थेषु - शब्दादिषु कीदृशेषु ? - इन्द्रियैः सङ्गताः - इन्द्रियाणां गोचरतां गतास्तेषु, तथा वैराग्यमार्गविघ्नेषु सम्यग्ज्ञानक्रियान्तरायेषु, किमित्याह - परिसंख्यानं - तत्त्वाव लोचनं कार्य, यत एते शब्दादय इत्वरा आयतावहिता इति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानं विधेयं । कस्मात् पुनः परिसंख्यायन्ते गोचरमागताः शब्दादय इति ? - कार्य - प्रयोजनं परं - प्रकर्षवद् मो - क्षपदप्राप्तिलक्षणमिच्छता - अभिलषता नियतं शाश्वतम् ॥ १४८ ॥
॥ इत्याचाराधिकारः ॥
तच्चेच्छता भावना भाव्या इत्याहभावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः कर्मास्रवसंवरविधिश्च ॥ १४९ ॥ निर्जरणलोकविस्तर धर्मखाख्याततत्त्वचिन्ताश्च । बोधिः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥ १५० ॥ भावयितव्यं - चिन्तनीयं । किं तत् ? - अनित्यत्वं १ तथा अशरणत्वं - जन्माद्यभिभूतस्य नास्ति त्राणं २ 'तथैकताऽन्यत्वे' तत्रैकत्वम् - एक एवाहमित्यादि ३ अन्यत्वम् - अन्य एवाहं स्वजनेभ्यः ४ अशुचित्वं शुक्रशोणितादीनामादि (द्युत्तर) कारणाना
For Private & Personal Use Only
योगेन्द्रिय
वशता
॥२९॥
jainelibrary.org