________________
उपकरणस्यासंगता
Sortarnos
यदित्यार्याध कंठ्यम् । तत् कल्प्यमपि-शुद्धमपि पिण्डाद्यकल्प्यं, यच्च वस्तु प्रवचनकुत्साकर-शासननिन्दाविधायक तदप्यकल्पनीयमिति ॥ १४४॥ किंचिद्वस्तु शुद्धं-कल्प्यमकल्प्यं स्याद्, अतिस्निग्धादि, विकारहेतुत्वादनापत्तेः परिहार्य । तथा अकल्प्यमपि कल्प्यं स्याद्, वातविकारिणामिति । किं तदेवं स्यादित्याह-पिण्ड इत्यादि, स्पष्टं ॥ १४५ ॥
कदा कल्प्यं कदा वा अकल्प्यमिति विभजतेदेशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात् कल्पते कल्प्यम् ॥ १४६॥
देश-ग्रामादिकं तथा कालं-दुर्भिक्षादिकं पुरुष-प्रबजितराजपुत्रादि अवस्थां-सहिष्णुत्वप्रभृतिकां प्रसमीक्ष्येति योगः, तथोपयोगश्च-गुणः, पाठान्तरे तु उपघातश्च-सक्तुकादिषु जीवसंसक्तिदोषः, शुद्धिः-चित्तनैर्मल्यं परिणामश्च-भावस्यान्यथाभवनं ते तथा तान् , क्वापि समाहारो दृश्यते ततस्तत् , असमीक्ष्य-पर्यालोच्य भवति-जायते कल्प्यं-ग्राह्यं, भवति कल्प्यं | शुद्धं पिण्डादि ।न-नैवैकान्तात्-निश्चयेन कल्पते-ग्राह्यं भवति कल्प्यं-शुद्ध पिण्डादि, देशाद्यपेक्ष्य अकल्प्यमपि कल्प्यं भवतीति भावनेति ॥ १४६॥ ___एवमनैकान्तिकं कल्प्याकल्प्यविधि निरूप्य योगत्रयनियमनायाहतचिन्त्यं तद्भाष्यं तत्कार्यं भवति सर्वथा यतिना । नात्मपरोभयबाधकमिह यत् परतश्च सर्वाद्धम् ॥ १४७ ॥ तत् चिन्त्य-चित्तेन चिन्तनीयं तद् भाष्यं वचनेन भणनीयं तत् कार्य-शरीरेण विधेयं भवति-जायते सर्वथा-सर्वेः
Jain Education Homelonal
For Private Personel Use Only
Krjainelibrary.org