________________
प्रशमरतिः हारि. वृत्तिः
उपकरणस्यासंगता
॥२८॥
छितः, तद्वदिति दृष्टान्तः, उपग्रहवानपि-धर्मोपकरणयुक्तोऽपि न सङ्गमुपयाति-न स्नेहमुपगच्छति निर्ग्रन्थो-वक्ष्यमाणपरिग्रहरहित इति ॥ १४१॥
कः पुनरयं ग्रन्थ इत्याहग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च । तज्जयहेतोरशठं संयतते यः स निम्रन्थः ॥१४२॥ प्रथ्यते-वेष्ट्यते येन स ग्रन्थः सोऽष्टविधं कर्म मिथ्यात्वाविरतियोगाश्च पूर्वोक्ताः, तज्जयहेतोः-कर्मादिनिराकरणनिमित्तमशठं-मायारहितं यथा भवति (तथा) संयतते-सम्यगुद्यच्छति यः स निर्ग्रन्थो भवतीति ॥ १४२॥ ___ संप्रति कल्प्यमकल्प्यं वा किं तत् साधूनामित्यावेदयन्नाहयद् ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये तत् कल्प्यमकल्प्यमवशेषम् ॥१४॥
यद्वस्तु ज्ञानादीनां त्रयाणां प्रसिद्धस्वरूपाणामुपग्रहम्-उपष्टम्भं तथा निग्रहं च-निवारणं दोषाणां-क्षुदादीनां रागादीनां वा कल्पयति-करोति तद्वस्तु, व?-निश्चये-निश्चयनये विचार्य एतत् कल्प्यं-कल्पनीयं । यदित्थंभूतं वस्तु न भवति तदकल्प्यमवशेषम्-अन्यदिति ॥ १४३ ॥
विपर्ययमाहयत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् । तत्कल्प्यमप्यकल्प्यं प्रवचनकुत्साकरं यच्च ॥ १४४ ॥ किंचित् शुद्ध कल्प्यं स्यात् स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ॥१४५।।
॥२८॥
Jain Education Inter
For Private & Personel Use Only
YKAmelibrary.org