SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ कल्प्यं - कल्पनीयं अपवादतो गाढालम्बनेनाकल्प्यमपि ग्राह्यम् । किमर्थमित्याह-सन् -शोभनो धर्मो यस्य स तथा स चासौ देहश्च तस्य रक्षा तस्या निमित्तं कारणं तेनोक्तं- भणितं, न चैतत्परिग्रहः तत्रामूच्छितत्वादिति ॥ १३८ ॥ एषैव निष्परिग्रहता स्पष्टीक्रियते - कल्प्याकल्प्यविधिज्ञः संविग्नसहायको विनीतात्मा । दोषमलिनेऽपि लोके प्रविहरति मुनिर्निरुपलेपः ॥ १३९ ॥ कल्प्याकल्प्यं-शुद्धाशुद्धं पिण्डादि तस्य विधिः- विधानं तं जानाति कल्पयाकल्प्यविधिज्ञः, तथा संविग्नाः - सद्धर्माण: सहाया यस्य स तथा । तथा विनीतात्मा - स्वभावविनीतः । दोषमलिनेऽपि दूषण दूषितेऽपि लोके - जने प्रविहरति आस्ते मुनिः - साधुर्निरुपलेपो - रागादिविरहित इति ॥ १३९ ॥ कथं पुनर्दोषवल्लोकान्तःपाती दोषैर्न लिप्यत इत्याह यद्वत् पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥ १४० ॥ यद्वद्-यथा पङ्काधारं-कर्दममध्यादुत्पन्नमपि पङ्कजं पद्मं नोपलिप्यते न स्पृश्यते तेन - कर्दमेन । दान्तिकमाह-धर्मोपकरणेन - वस्त्रपात्रादिना धृतं वपुर्यस्य स तथा साधुरलेपकः तद्वत्-तथा, लोभेन न स्पृश्य ते शुद्धाशयत्वादिति ॥ १४० ॥ तथा अपरोऽपि दृष्टान्तः- Jain Educational यद्वत्तुरगः सत्खप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥ १४१ ॥ यद्वत्-यथा तुरगो-घोटकः सत्स्वपि - विद्यमानेष्वप्याभरणविभूषणेषु - वालव्यजनादिष्वश्वमण्डनेषु अनभिषक्तः-अमू For Private & Personal Use Only उपकरणस्यासंगता ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy