________________
कल्प्यविधिः
S
प्रशमरतिः
किं तद् ?-आस्वाद्यं-भोक्तव्यं, किम्?-आस्वाद्यम्-अशनादिकं, अत्र द्वावपि कर्मसाधनावास्वाद्यशब्दावित्यर्थः। कीदृशम्?हारि.वृत्तिः गुणवत्-स्वादुगुणोपेतं, तथा कल्प्यं-कल्पनीयं । केनात आह-अमूञ्छितमनसा-अमृदुचित्तेन, साधुनेति प्रक्रमः । तथा
तद्विपरीतमपि च-अन्यथाभूतम्-अगुणवदपि च अविद्यमानास्वादं कल्प्य-शुद्धं इदं चाप्रदुष्टेन-साधुना द्वेषरहितेन। पुनः ॥ २७॥
६ कीदृशेन ?-दारुणा-काष्ठेनोपमा-उपमानं सर्वत्रैकस्वभावतातुल्यता यस्याः सा तथा, सा धृतिर्यस्य स तथा तेन, दारुकम-13
चेतनत्वाच्चन्दनादिभिः अभ्यर्च्यमानं न रागं न तु वास्यादिभिस्तक्ष्यमाणं द्वेष करोति, किं तर्हि ?-एकस्वरूपमेव तिष्ठति, एवं साधुरपि शुभाशुभाहारविषये रागद्वेपं न यायादिति ॥१३६॥ दू तत्र भोजनं कालाद्यपेक्षमभ्यवह्रियमाणं नाजीर्णादिदोषकरं स्यादित्यत आह| कालं क्षेत्रं मात्रां खात्म्यं द्रव्यगुरुलाघवं खबलम् । ज्ञात्वा योऽभ्यवहार्य भुंक्ते किं भेषजैस्तस्य ? ॥ १३७ ॥ ___ कालं-ग्रीष्मादिकं दुर्भिक्षादिकं वा, तथा क्षेत्रं-रूक्षादिकं तथा मात्रां-स्वकीयमाहारगमन]प्रमाणं स्वात्म्यं यद्यस्य प्रियं पथ्यं च, द्रव्यं माहिषं दधि (क्षीरं) गुरु, गव्यादि दधिक्षीरं लघु । इह समासः कार्यः स्यात् । तथा स्वबलं-निजसामर्थ्य ज्ञात्वा-बुद्धा योऽभ्यवहार्य-अन्नादि भुते किं भेषजैस्तस्येति ? ॥ १३७ ॥
एवं पिण्डशय्यादिग्रहणे कथं निष्परिग्रहता स्यादित्याशङ्कयाहपिण्डः शय्या वस्त्रैषणादि पात्रैषणादि यच्चान्यत् । कल्प्याकल्प्यं सद्धर्मदेहरक्षानिमित्तोक्तम् ॥ १३८॥ पिण्डादि प्रसिद्धं 'पिण्डं यच्चान्यत् सेजं च वत्थं च, चउत्थं पायमेव येति । यच्चान्यत-औपग्रहिकं दण्डकादि उत्सर्गतः
॥२७॥
ACC***
Join Educati
o
nal
For Private Personel Use Only
M
ainelibrary.org