SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Jain Education मितवृत्तिः स तथा तस्य, नियतग्रहणस्य नियतोपभोगस्य च सतः साधोरित्यर्थः । किमित्याह - नैवामयभयं स्यात्-न रोगभीतिर्भवेदिति ॥ १३४ ॥ अनन्तरोक्तं पिण्डाभ्यवहारं दृष्टान्तचतुष्केण स्पष्टयन्नाह - व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमान्नयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥ १३५ ॥ - गंडे लेपः स तथा अक्षस्य - धुरः उपाङ्गं चक्षणादिखरंटनं तत्तथा ततो द्वन्द्वः, ते इव तद्वद्, व्रणलेपवदक्षोपाङ्गवच्चेत्यर्थः । अभ्यवहरेद् आहारमित्यस्यात्रापि योगः । किमर्थमित्याह - असङ्गाः - साधवस्तेषां योगाः - संयमाः तेषां भरःसंघातः स एव तन्मात्रं तस्य यात्रा - निर्वाहस्तदर्थं तत्तथा, धर्मानुष्ठाननिर्वाहार्थमिति निष्कर्षः, इदं निमित्तपदमप्रेतन(ग्रं० ८००) दृष्टान्तद्वयेऽपि योज्यम् । तथा पन्नग इव- सर्पवदभ्यवहरेद्-भुञ्जीताहारं - पिण्डम्, यथा हि पन्नगो भक्ष्यं तृप्यर्थ रसमगृह्णन् ग्रसते, न चर्वति, एवं साधुरपि । तथा पुत्रशब्दोऽपत्यपर्यायः, पुत्रस्य पलं - मांसं तदिव पुत्रिकाया वा, तद्वद्, भावना पूर्ववद्, दृष्टान्तवस्तु चिलातिपुत्रव्यापादितदुहितृमांसं यथा हि पितुर्भ्रातॄणां च भक्षयतां तन्मांसं न तत्रास्ति रसगार्ध्यं, किंतु शरीरधारणार्थमेव, एवं साधुनाऽपि रसेष्वगृद्धेनाप्यभ्यवहार्यमन्नमिति ॥ १३५ ॥ पुनरेनमेवार्थ सविशेषमाह - गुणवदमूर्च्छितमनसा तद्विपरीतमपि चाप्रदुष्टेन । दारूपमधृतिना भवति कल्प्यमास्वाद्यमाखाद्यम् ॥१३६॥ अत्रास्वाद्यशब्दद्वयं विद्यते, तत्रैकस्याशनादि वाच्यं अपरस्य तु अभ्यवहरणक्रिया । ततश्चैवं योज्यते - भवति - जायते, For Private & Personal Use Only व्रणलेपाद्युपमाः jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy