________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
SAS S
१३५ वसतेवृषभकल्पना गा.८७८| ८८० १३६ जलस्याचित्तता गा.८८१
॥२५५॥
साधूनां भव्या भवति, तथा शिरसि-शृङ्गयोर्मध्ये ककुदे वा-अंशकूटप्रदेशे वसतिकरणे पूजा-प्रवरवस्त्रपात्रादिप्रदानलक्षणा सत्कारश्च-अभ्युत्थानादिरूपो तिनां भवति, तथा स्कन्धप्रदेशे पृष्ठप्रदेशे च वसतौ सत्यां भरो भवति-साधुभिरितस्तत आगच्छद्भिर्वसतिराकुला भवति, तथा 'पोट्टमि यत्ति उदरदेशे वसतौ विधीयमानायां ध्रातः-तृप्तो भवति वृषभो-वृषभकल्पो भवति गृहीतवसतिनिवासी यतिजन इति ॥ ८७९ ॥ ८८० ॥ १३५ ॥ इदानीं 'उसिणस्स फासुयस्सवि जलस्स सञ्चित्तया कालो' इति षट्त्रिंशदुत्तरशततमं द्वारमाह
उसिणोदगं तिदंडुक्कलियं फासुयजलंति जइकप्पं । नवरि गिलाणाइकए पहरतिगोवरिवि धरियवं ॥ ८८१॥ जायइ सचित्तया से गिम्हमि पहरपंचगस्सुवरि । चउपहरोवरि सिसिरे वासासु
पुणो तिपहरुवरि ॥८८२॥ त्रिभिर्दण्डैः-उत्कालैरुत्कालितं-आवृत्तं यदुष्णोदकं तथा यत्प्रासुकं-खकायपरकायशस्त्रोपहतत्वेनाचित्तीभूतं जलं तदेव यतीनां कलप्यं-ग्रहीतुमुचितं, इह किल प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रः द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते ततीये तु सर्वोऽप्यप्कायोऽचित्तो भवतीति त्रिदण्डाहणं, इदं च सर्वमपि प्रहरत्रयमध्य एवोपभोक्तव्यं, प्रहरत्रयादूर्द्ध पुनः कालातिक्रान्तदोपसम्भवेनोपभोगानहत्वान्न धारणीयं, नवरं-केवलं ग्लानादिकृते-लानवृद्धादीनामर्थाय प्रहरत्रिकादप्यू धर्तव्यमिति ॥ ८८१ ॥
'जाये'त्यादि, जायते-भवति सचित्तता 'से'त्ति तस्य उष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे' उष्णकाले प्रहरपञ्चकस्योपरि४ प्रहरपञ्चकादूर्द्ध, कालस्यातिरूक्षत्वाच्चिरेणैव जीवसंसक्तिसद्भावात् , तथा शिशिरे-शीतकाले कालस्य स्निग्धत्वात्प्रहरचतुष्टयादूर्द्ध सचित्तता
TAROSES%*
५५॥
Jain Education
For Private & Personal Use Only
T
ww.jainelibrary.org