________________
तदेवमनयाऽऽनुपूर्व्या-क्रमेण द्वादशवार्षिकीमुत्कृष्टां संलेखनां कृत्वा गिरिकन्दरां च गत्वा उपलक्षणमेतत् अन्यदपि षटकायोपमर्दरहितं विविक्तं स्थानं गत्वा पादपोपगमनं, वाशब्दाद्भक्तपरिज्ञामिगिनीमरणं वा प्रपद्यते, मध्यमा तु संलेखना पूर्वोक्तप्रकारेण द्वादशभिर्मासैः जघन्या च द्वादशमिः पक्षैः परिभावनीया, वर्षस्थाने मासान् पक्षांश्च स्थापयित्वा तपोविधिः प्रागिव निरवशेष उभयत्रापि भावनीय इति भावः ॥ ८७५ ॥ ८७६ ॥ ८७७ ॥ १३४ ॥ इदानीं 'वसहेण वसहिगहणं'ति पंचत्रिंशदुत्तरशततमं द्वारमाह
नयराइएसु घेप्पद वसही पुत्वामुहं ठविय वसहं । वामकडीह निविटुं दीहीकअग्गिमेकपयं ॥ ८७८॥ सिंगक्खोडे कलहो ठाणं पुण नेव होइ चलणेसु । अहिठाणे पोरोगो पुच्छंमि य फेडणं जाण ॥ ८७९ ।। मुहमूलंमि य चारी सिरे य कउहे य पूयसकारो । खंधे पट्टीय भरो पु
इंमि य धायओ वसहो ॥ ८८०॥ ___ नगरप्रामादिषु पूर्वाभिमुखं वामकट्या-वामपार्श्वेण निविष्टं-उपविष्टं दीर्घाकृताग्रिमैकपाद-आयतीकृताग्रतनैकतरचरणं वृषभं-बलीबर्द स्थापयित्वा-निवेश्य वसतिर्गृह्यते, अयमर्थः-यावन्मानं क्षेत्रं वसिमाक्रान्तं भवति तावत्सर्वमपि वामपार्बोपविष्टपूर्वाभिमुखवृषभरूपं बुझ्या परिकलय प्रशस्तेषु प्रदेशेषु साधुभिर्वसतियेति ॥ ८७८ ॥ इत्थं च क्षेत्रे वृषभरूपे कल्पिते कुत्रावयवे वसतिः क्रियमाणा किम्फला
भवति ?, तत्राह-'सिंगे'त्यादि, शृङ्गप्रदेशे यदि वसतिं करोति तदा निरन्तरं वतिनां कलहो भवति, तथा स्थानं-अवस्थितिः 'पुनसानैव भवति चरणेषु-पादप्रदेशेषु क्रियमाणायां वसतौ, तथाऽधिष्ठाने-अपानप्रदेशे वसतो क्रियमाणायां मुनीनां उदररोगो भवति, तथा Mपुच्छे-पुच्छप्रदेशे क्रियमाणायां वसतौ स्फेटनं-अपनयनं वसतेर्जानीहि, तथा मुखमूले वसतौ क्रियमाणायां 'चारित्ति भोजनसम्पत्तिः
Jan Education Intentional
For Private
Personal Use Only