SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥२५४॥ यावत्कदाचिञ्चतुर्थ कदाचित् षष्ठं कदाचिदष्टमं एवं दशमद्वादशादीन्यपि करोति, पारणकं च सर्वकामगुणितेनोद्गमादिशुद्धनाहारेण विधत्ते, १३४ संततः परमन्यानि चत्वारि वर्षाणि उक्तप्रकारेण विचित्रतपांसि करोति विकृतिनियूहितानि-विकृतिरहितानि, किमुक्तं भवति ?-विचित्रं लेखना | तपः कृत्वा पारणके निर्विकृतिकं भुङ्क्ते उत्कृष्टरसवर्ज च, ततः परतोऽन्ये द्वे च वर्षे एकान्तरितमाचाम्लं करोति, एकान्तरं चतुर्थ कृत्वा होगा.८७५. आचाम्लेन पारयतीत्यर्थः, एवमेतानि दश वर्षाणि गतानि, एकादशस्य तु वर्षस्याद्यान् षण्मासान् 'नातिविकृष्टं' नातिगाढं तपः क ा ७७ रोति, नातिविकृष्टं नाम तपश्चतुर्थ षष्ठं वाऽवसेयं नाष्टमादिकं, पारणके तु परिमितं-किश्चिदूनोदरतासम्पन्नमाचाम्लं करोति, ततः पर| मपरान् पण्मासान् विकृष्ट-अष्टमदशमद्वादशादिकं तपःकर्म भवति, पारणके तु मा शीघ्रमेव मरणं यासिषमितिकृत्वा परिपूर्णधाण्या | आचाम्लं करोति, न पुनरूनोदरतयेति, द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोतीत्यर्थः । उक्तं च निशीथचूौं-"दुवाल| समं वरिसं निरंतर हायमाणं उसिणोदएण आयंबिलं करेइ, त कोडिसहियं भवइ, जेणायंबिलस्स कोडी कोडीए मिलई"त्ति । चतुर्थ |कृत्वा आचाम्लेन पारयति, पुनश्चतुर्थ विधायाचाम्लेनैव पारयतीत्यादीन्यपि बहूनि मतान्तराणि द्वादशस्य वर्षस्य विषये वीक्ष्यन्ते, परं ग्रन्थगौरवभयानात्र लिखितानीति । इह च द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैककवलहान्या तावदूनोदरतां करोति यावदेकं कवल-| माहारयति, ततः शेषेषु दिनेषु क्रमश एकेन सिक्थेनोनमेकं कवलमाहारयति द्वाभ्यां सिक्थाभ्यां त्रिभिः सिक्थैरेवं यावदन्ते एकमेव सिक्थं भुङ्क्ते, यथा दीपे समकालं तैलवर्तिक्षयो भवति तथा शरीरायुषोरपि समकं क्षयः स्यादिति हेतोः, अपरं चेह द्वादशस्य वर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरितं तैलगण्डूषं चिरकालमसौ मुखे धारयति, ततः खेलमल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन | ॥२५४॥ शोधयति, यदि पुनस्तैलगण्डूषविधानं न कार्यते तदा रूक्षत्वात्तेन मुखयत्रमीलनसम्भवे पर्यतसमये नमस्कारमुच्चारयितुं न शक्नोतीति, Jan Education International For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy