________________
शरीरे रोगादिसम्भव इति । ८६७ ।। इह कालापेक्षया तथा तथा भवति आहारस्य प्रमाणं, कालश्व त्रिधा, तथा चाह - 'सीओ' इत्यादि, त्रिधा कालो ज्ञातव्यः, तद्यथा-शीत उष्णः साधारणश्च, 'तत्र' तेषु कालेषु मध्ये साधारणे काले आहारे आहारविषये इयं - अनन्तरोक्ता मात्रा - प्रमाणं । ८६८ ।। 'सीए' इत्यादि, शीते - अतिशयेन शीतकाले द्रवस्य - पानीयस्य एको भागः कल्पनीयः चत्वारो भक्त-भक्तस्य, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य कल्पनीयौ त्रयस्तु भागा भक्तस्य, अथवेतिशब्दो मध्यमशीतकालसंसूचनार्थः, तथा उष्णे-मध्यमोष्णकाले द्वौ भागौ द्रवस्य - पानीयस्य कल्पनीयौ शेषास्तु त्रयो भागा भक्तस्य, अत्युष्णे च काले त्रयो भागा द्रवस्य शेषौ तु द्वौ भागौ भक्तस्य, वाशब्दोऽत्रात्युष्णकालसंसूचनार्थः, सर्वत्र च षष्ठो भागो वायुप्रविचारणार्थं मुत्कलो मोक्तव्यः ॥ ८६९ ॥ सम्प्रति भागानां चरस्थिर विभागप्रदर्शनार्थमाह- 'एगो' इत्यादि, एको द्रवस्य भागोऽवस्थितो, न कदाचिदपि न भवतीति भावः, द्वौ च भागौ भोजनस्य, शेषौ तु द्वौ द्वौ भागौ एकैकस्मिन् भक्त पाने चेत्यर्थः, वर्धेते वा हीयेते वा, वृद्धिं वा व्रजतो हानिं वा व्रजत इत्यर्थः तथाहि - अतिशीतकाले द्वौ भागौ भोजनस्य वर्धेते अत्युष्णकाले च पानीयस्य, अत्युष्णकाले च द्वौ भागौ भोजनस्य हीयेते अतिशीतकाले च पानीयस्येति । ८७० ।। १३२ ।। साम्प्रतं 'वसहिसुद्धि'त्ति त्रयस्त्रिंशदुत्तरशततमं द्वारमाह
Jain Education International
सो दो धारणा चत्तारि मूलवेलीओ । मूलगुणेहिं विसुद्धा एसा हु अहागडा वसही ॥ ८७१ ॥ बंसगकडणोक्कंचण छायण लेवण दुवारभूमी य । परिकम्मविष्यमुक्का एसा मूलुत्तरसु ।। ८७२ ॥ दूमिय धूविय वासिय उज्जोइय बलिकडा अवन्त्ता य । सित्ता संमट्ठावि य विसो
For Private & Personal Use Only
म
www.jainelibrary.org