________________
प्रव० सा रोद्धारे
तत्त्वज्ञानवि०
।। २५२ ॥
*%%%%%
तदानीं चीवरप्रक्षालनस्य सूत्रोक्तनीत्या बहुगुणत्वात्, येऽपि च प्राण्युपमर्दादयो दोषास्तेऽपि यतनया प्रवर्तमानस्य न सम्भवन्ति, यो हि सूत्राज्ञामनुसृत्य यतनया सम्यक्प्रवर्तते स यद्यपि कथञ्चित्प्राण्युपमर्दकारी तथापि नासौ पापभाग्भवति नापि तीव्रप्रायश्चित्तभागी, सूत्रबहुमानतो यतनया प्रवर्तमानत्वात्, अत एवोक्तम्- 'धुवंति जयणाए' इति १३१ ॥ ८६५ ॥ इदानीं 'भोयणभाय'त्ति द्वात्रिंशदुतरशततनं द्वारं व्याचिख्यासुः प्रथमतः कवलमानमाह
बत्तीस किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे क वला ॥। ८६६ ।। अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वायपवियारणट्ठा छन्भागं ऊणयं कुज्जा ॥ ८६७ ॥ सीओ उसिणो साहारणो य कालो तिहा मुणेयो । साहारणंमि काले तत्थाहारे हमा मत्ता || ८६८ || सीए दवस्स एगो भत्ते चत्तारि अहव दो पाणे । उसिणे दवस्स दुन्नी तिन्निविसेसा उ भत्तस्स ॥। ८६९ ।। एगो दवस्स भागो अवडिओ भोयणस्स दो भागा । वहंति व हायंति व दो दो भागा उ एक्केके ॥ ८७० ॥
पुरुषस्य कुक्षिपूरक आहारो मध्यमप्रमाणो द्वात्रिंशत्कवलाः, किलेत्याहारस्य मध्यमप्रमाणतायाः संसूचकं, महेलायाः कुक्षिपूरक आहारो मध्यमप्रमाणोऽष्टाविंशतिः कवला इति ॥ ८६६ ॥ अथ भोजनभागप्रतिपादनार्थमेवाह (प्रन्थानं ९००० ) - ' अद्धे' त्यादि, इह किल सर्वमुदरं पनिर्भागैर्विभज्यते, तत्रार्ध - त्रीन् भागानशनस्य-कूरमुद्गमोदकादेः सव्यञ्जनस्य-तक्रतीमनभर्जिकासहितस्य योग्यं कुर्यात् विदध्यात्, तथा द्रवस्य - पानीयस्य योग्यौ द्वौ भागौ कुर्यात्, षष्ठं तु भागं वातप्रविचारणार्थं - वायुसभ्वलनार्थमूनकं कुर्यात्, अन्यथा हि वायुविष्कम्भतः
Jain Education International
For Private & Personal Use Only
१३१ उपधिधावनं
१३२ आहारमानम् गा. ८६५
७०
॥ २५२ ॥
www.jainelibrary.org