________________
॥ ८६४ ॥ आयरियगिलाणाणं महला मइला पुणोवि धोइज्जा । मा हु गुरूण अवण्णो लोगम्मि अजीरणं इअरे || ८६५ ॥
अप्राप्त एव-अनायाते एव वर्षे वर्षाकाले वर्षाकालान्मनागर्वाक्तने काले इत्यर्थः, जलादिसामग्र्यां सत्यामुत्कर्षतः सर्वमुपधिं - उपकरणं यतनया यतयः प्रक्षालयन्ति, उदकस्य जलस्य पुनरसति अभावे जघन्यतोऽपि पात्रनिर्योगोऽवश्यं प्रक्षालनीयः, इद्द निस्पूर्वी युजिरुपकारे वर्तते, उक्तं च पाठोदूखले 'निज्जोगो उवयारो' इति, तत्र निर्युज्यते - उपक्रियतेऽनेनेति निर्योगः - उपकरणं पात्रस्य निर्योगः पात्रनिर्योगः - पात्रोपकरणं पात्रकबन्धादिः, उक्तं च-- "पत्तं पत्ताबंधी पायट्टवणं च पायकेसरिया । पडलाई रयत्ताणा गोच्छओ पायनिजोगो ॥ १ ॥” इति आह - किं सर्वेषामेव वस्त्राणि वर्षाकालादर्वागेव प्रक्षाल्यन्ते ? किं वाऽस्ति केषाञ्चिद्विशेषः ?, अस्तीति ब्रूमः, || ८६४ ॥ केषामिति चेत आह- 'आयरिये 'त्यादि, आचार्या:- प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनादिगुणग्रामभूरयः सूरयः, आचार्यग्रहणमुपलक्षणं तेनोपाध्यायादीनां प्रभूणां परिग्रहः, तेषां तथा ग्लाना - मन्दास्तेषां च पुनः पुनर्मलिनानि २ वस्त्राणि प्रक्षाल - येत्, प्राकृतत्वाच्च मलिनानीत्यत्र सूत्रे पुंस्त्वनिर्देशः, प्रस्तुतेऽर्थे कारणमाह-'मा हु' इत्यादि, मा भवतु हु:- निश्चितं गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्णः - अश्लाघा, यथा निराकृतयोऽमी मलदुरभिगन्धोपलिप्तदेहाः ततः किमेतेषामुपकण्ठं गतैरस्माभिरिति, तथा इतरस्मिन् ग्लाने मा भवत्वजीर्णमिति, मलक्किन्नवस्त्रप्रावरणे हि शीतलमारुतादिसम्पर्कतः शैत्यसम्भवेन भुक्ताहारस्यापरिणतौ ग्लानस्य विशेपतो मान्द्यमुज्जृम्भते इति, इह वर्षाकालप्रत्यासन्नं कालमपहाय शेपे ऋतुबद्धे काले चीवरप्रक्षालनं यतीनां न कल्पते, प्राण्युपमर्दोपकरणबकुशत्वाद्यनेकदोषसम्भवात् नन्वेते दोषा वर्षाकालादर्वागपि वस्त्रप्रक्षालने सम्भवन्ति ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि, तन्न,
3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org