________________
प्रव० सा०
रोद्धारे तत्त्वज्ञानवि०
१३० प्रतिजारणकाल: गा.८६३
॥२५
॥
च्छस्य तदधीनत्वात् यथाशक्ति निरन्तरं सूत्रार्थनिर्णयप्रवृत्तेश्च, तथा वृषभे-उपाध्यायादिके द्वादश वर्षाणि यावत् प्रतिजागरणा शुद्धैरशुद्धैर्वस्तुभिश्च विधेया, ततः परं शक्तौ भक्तविवेकः, एतावता कालेनान्यस्यापि समस्तगच्छभारोद्वहनसमर्थस्य वृषभस्य उत्थानात् , तथा अष्टादश मासान् यावद्भिक्षो:-सामान्यसाधोः शुद्धैरशुद्धैः प्रतिजागरणा विधेया, तत: परमसाध्यतया शक्तौ सत्यां भक्तविवेकस्यैव कर्तुमुचितत्वात् , इदं च शुद्धाशुद्धाशनादिभिराचार्यादीनां परिपालनं रोगाद्यभिभूतवपुषां क्षेत्रकालादेः परिहाणिवशतो भक्ताद्यलाभवतां च विधेया (य) न पुनरेवमेव सुस्थावस्थायामिति, व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रक्रियाव्यवस्थार्थमियं गाथा लिखिताऽस्ति, यथा"छम्मासे आयरिओ कुलं तु संवच्छराइँ तिन्नि भवे । संवच्छरं गणो खलु जावजीवं भवे संघो ॥ १॥" अस्या व्याख्या-प्रथमत आचार्यः षड् मासान यावञ्चिकित्सां ग्लानस्य कारयति, तथाप्यप्रगुणीभूतं तं कुलस्य समर्पयति, ततः कुलं त्रीन संवत्सरान यावचिकित्सक भवति, तथाप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति, तदनन्तरं संवत्सरं यावद्गणः खलु चिकित्सां कारयति, तथाप्यनिवर्तितरोगे तं गणः सङ्घस्य समर्पयति, ततः सङ्घो यावज्जीव-प्रासुकप्रत्यवतारेण तद्भावे चाप्रासुकेनापि यावज्जीवं चिकित्सको भवति, एतच्चोक्तं भक्तविवेकं कर्तुमशक्कुवतः, यः पुनर्भक्तविवेकं कर्तुं शक्नोति तेन प्रथमतोऽष्टादश मासान् चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे दुष्प्रापत्वात् , तदनन्तरं चेत्प्रगुणीभवति ततः सुन्दरं, अथ न भवति तर्हि भक्तविवेकः कर्तव्य इति १३० ॥ ८६३॥ इदानीं "उवहिधोयणकालो'त्ति एकत्रिंशदुत्तरशततमं द्वारमाह
अप्पत्ते चिय वासे सवं उवहिं धुवंति जयणाए । असईए उदगस्स उ जहन्नओ पायनिजोगो
*
॥२५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org