SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ REG 'शल्योद्धरणनिमित्तं' आलोचनार्थ 'गीतस्य' गीतार्थस्य गुरोरन्वेषणा तुः पुनरर्थे उत्कृष्टा क्षेत्रतः सप्तैव योजनशतानि यावत्क-151 | तव्या कालतस्तु द्वादश वर्षाणि यावदिति, अयमर्थः-संनिहित एव गीतार्थों यदि न लभ्यते तदा योजनशतसप्तप्रमाणक्षेत्रेऽसावुत्कृष्टतोऽन्वेषणीयः कालतस्तु द्वादश वर्षाणि यावत्समागच्छन् प्रतीक्षणीय इति, नन्वेतावति क्षेत्रे तदन्वेषणार्थ पर्यटन्नेतावन्तं च कालं तमागच्छन्तं प्रतीक्षमाणः स यदि अन्तरालेऽप्रदत्तालोचनोऽपि म्रियते तदा किमयमाराधको न वेति ?, उच्यते, आलोचनां दातुं सम्यक्प| रिणतोऽन्तराऽपि म्रियमाणोऽयमाराधक एव, विशुद्धाध्यवसायसम्पन्नत्वात् , उक्तं च-"आलोयणापरिणओ सम्म संपढिओ गुरुसयासे । जइ अंतरावि कालं करेज आराहओ तहवि ॥ १॥" [आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशे । यद्यन्तराऽपि कालं कुर्यात् तथाप्याराधकः ॥ १॥] अथैवमन्वेषणेऽपि सकलोक्तगुणगुरुर्गुरुर्न प्राप्यते तदा संविग्नगीतार्थमात्रस्याप्यालोचना दातव्या, यतः श्रूयते -अपवादतो गीतार्थसंविनपाक्षिकसिद्धपुत्रप्रवचनदेवतानामलाभे सिद्धानामप्यालोचना देया, सशल्यमरणस्य संसारकारणत्वात् इति, आह च-'संविग्गे गीयत्थे असई पासस्थमाइसारूवी" [संविग्ने गीतार्थे असति पार्श्वस्थादयः सरूप्यन्ताः इति] १२९ ॥ ८६२ ॥ सम्प्रति 'गुरुपमुहाणं कीरइ असुद्धसुद्धहिँ जत्तियं कालं।' इति त्रिंशदुत्तरशततमं द्वारमाह जावजीवं गुरुणो असुद्धसुद्धेहि वावि कायई । वसहे वारस वासा अट्ठारस भिक्खुणो मासा ॥८६३॥ यावज्जीवमाजन्मापीत्यर्थः गुरोः-आचार्यस्य शुद्धैः-आधाकर्मादिदोषादूषितैरशुद्धैर्वाऽपि-आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभैषजादिमिः कर्तव्यं प्रतिजागरणमिति शेषः, अयमर्थ:-शुद्धैरशुद्धैश्च ते यावज्जीवमपि प्रतिजागरणीयाः साधुश्रावकलोकेन, सर्वस्यापि च ग. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy