________________
इति तदा तमप्रतिपत्स्यमानं नैव स्मारयति निष्फलत्वात्, अमूढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायां यद्यालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति, अथ न प्रत्यावृत्तस्ततो न प्रयच्छतीति ननु चतुर्दशपूर्वधरादेः कथं प्रत्यक्षज्ञानित्वं ?, तस्य श्रुतज्ञानित्वेन परोक्षज्ञानित्वात् उच्यते, चतुर्दशादि पूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात्, तथाहि -येन यथा योऽतिचारः कृतस्तं तथा सर्वमेते जानन्तीति, अथ यदि आगमव्यवहारिणः सर्वभावविषयं परिज्ञानं ततः कस्मात्तस्य पुरत आलोच्यते ?, किन्तु तस्य समीपमुपगम्य वक्तव्यमपराधं मे भवन्तो जानते तस्य शोधिं प्रयच्छतेति, उच्यते, भालोचिते बहुगुणसम्भवतः सम्यगाराधना भवति, तथाहि - आलोचनाऽऽचार्येण स आलोचकः प्रोत्साह्यते, यथा वत्स ! त्वं भाग्यवान् यदेवं मानं निहत्यात्महितार्थतया स्वरहस्यानि प्रकटयसि, महादुष्करमेतत् एवं स प्रोत्साहितः सन् प्रवर्धमानपरिणामः सम्यग् निःशल्यो भूत्वा यथावस्थितमालोचयति शोधिं च सम्यक्प्रतिपद्यते ततः पर्यन्ते आराधना स्तोककालेन च मोक्षगमनमिति ।। ८५५ ।। ८५६ ।। अथ श्रुतव्यवहारमाह - 'आयारे'त्यादि, आचारप्रकल्पो निशीथस्तदादिकं कल्पव्यवहारदशाश्रुतस्कन्धप्रभृतिकं, एकादशाङ्गावशेषपूर्वप्रमुखं च शेषं श्रुतं - सर्वमपि श्रुतव्यवहारः, नवादिपूर्वाणां श्रुतत्वाविशेषेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वात् केवलादिवदागमत्वेनैव व्यपदेशः, एते च श्रुत व्यवहारिणः स्फुटतरोपलब्धिनिमित्तं त्रीन् वारानालोचनाईमालोचापयन्ति, ते ह्येकं द्वौ वा वारावालोचिते अनेन सम्यगालोचितमसम्यग्वेति विशेषं नावगच्छन्तीति, कथमालोचापयन्तीति चेदुच्यते प्रथमवेलायां निद्रायमाण इव शृणोति ततो ब्रूते-निद्राप्रमादं गत| वानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति -न सुष्ठु मयाऽधुनाऽवधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽमायावी, अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुटिल इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org