________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ २४९ ॥
एवं च सति तस्यापि प्रत्यय उपजायते यथाऽहं विसदृशभणनेन मायावी लक्षित इति, ततो मायानिष्पन्नं प्रायश्चित्तं पूर्वं दातव्यं तदनन्तरमपराधनिमित्तमिति ॥ अथ आज्ञाव्यवहारमाह - 'देसंते' त्यादि, देशान्तरस्थितयोर्द्वयोर्गीतार्थयोर्गूढपदैरालोचना - निजातिचारनिवेदनमाज्ञाव्यवहारः, एतदुक्तं भवति - यदा द्वावप्याचार्यावासेवितसूत्रार्थतया गीतार्थौ क्षीणजङ्घाबलौ विहारक्रमानुरोधतो दूरतरदेशान्तव्यवस्थितौ अत एव परस्परस्य समीपं गन्तुमसमर्थावभूतां, तदाऽन्यतरः प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति मतिधारणाकुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतीचारासेवनपदानि कथयित्वा प्रेषयति, तेन च गत्वा गूढपदेषु कथितेषु स आचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिवलादिकं परिभाव्य स्वयं वा तत्र गमनं करोति शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति ।। ८५७ ॥ अथ धारणाव्यवहारमाह —' गीयत्थे 'त्यादि, इह गीतार्थेन संविग्नाचार्येण कस्यापि शिष्यस्य कचिदपराधे द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाश्यावलोक्य या शुद्धिः प्रदत्ता तां शुद्धिं तथैवावधार्य सोऽपि शिष्यो यदाऽन्यत्रापि तादृश एवापराधे तेष्वेव द्रव्यादिषु तथैव प्रायश्चित्तं ददाति तदाऽसौ धारणानाम चतुर्थो व्यवहारः, उद्धृतपदधारणरूपा वा धारणा, इदमुक्तं भवति - वैयावृत्त्यकरणादिना कश्चिद्गच्छोपकारी साधुरद्याप्यशेषच्छेदश्रुतयोग्यो न भवति ततस्तस्यानुग्रहं कृत्वा यदा गुरुरुद्धृतान्येव कानिचित्प्रायश्चित्तपदानि कथयति तदा तस्य तेषां पदानां धरणं धारणाऽभिधीयते इति ॥ ८५८ ॥ अथ | जीतव्यवहारमाह - 'दव्वाई'त्यादि, येष्वपराधेषु पूर्वमहर्षयो बहुना तपः प्रकारेण शुद्धिं कृतवन्तस्तेष्वप्यपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननधृतिबलादीनां च हानिमासाद्य समुचितेन केनचित्तपः प्रकारेण यां गीतार्थाः शुद्धिं निर्दिशन्ति तत्समयपरिभाषया जीतमुध्यते, अथवा यत्प्रायश्चित्तं यस्याचार्यस्य गच्छे सूत्रातिरिक्तं कारणतः प्रवर्तितं अन्यैश्च बहुभिरनुवर्तितं तत्तत्र रूढं जीतमुच्यते, तदेवमेतेषां
Jain Education International
For Private & Personal Use Only
१२६ व्यवहारपश्चकम् गा. ८५४
५९
॥ २४९ ॥
www.jainelibrary.org