________________
प्रव० सा
रोद्वारे तत्त्वज्ञा
नवि० ॥ २४७ ॥
गच्छवासिभिः कल्पनीयमेव ग्राह्यम्, तचैवं यद्वस्त्रं न तदर्थ-व्रतिनिमित्तं क्रीतं यथ नैव प्रतिनिमित्तं 'वयं'ति अन्तर्भूतण्यर्थत्वात् वायितं यच्च नैव गृहीतमन्येषां सम्बन्धि, अनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय बलाद्यन्न गृहीतमिति भावः एवंविधं वस्त्रं, तथा अभ्याहृतमपमित्यकं च त्यक्त्वा शेषं साधोः कल्पत इति, तत्र अभ्याहृतं द्वेधा - परप्रामाभ्याहृतं स्वप्रामाभ्याहृतं च परमामाभ्याहृतं यदन्यस्माद् ग्रामादेः साधुनिमित्तमानीतं स्वमामाभ्याहृतं हट्टादिभ्यो यद् व्रतिमिरदृष्टं यतिनिमित्तमेव गृहे समानीतं, प्रतिदृष्टं तु हट्टादि - भ्योऽप्यानीतं गृहादिषु यतीनां ग्रहीतुं कल्पत इति, तथा अपमित्यकं - उद्धारकेणान्यस्माद् गृहीत्वा यद्ददाति, दोषाश्चात्रापि पिण्डवद्वाच्या इति, अपरं च - अत्राप्यविशोधिकोटिविशोधिकोटिद्वयं ज्ञातव्यं, तत्र मूलतो यत्यर्थं वायनादिकं वस्त्रस्याविशोधिकोटि : प्रक्षालनादिकं च यत्यर्थं क्रियमाणं विशोधिकोटिः, इदं च वस्त्रं यदा कल्पनीयमित्यवसितं भवति तदा द्वयोरप्यन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयं, मा तत्र गृहिणां मणिर्वा सुवर्ण वा अन्यद्वा रूपकादिद्रव्यं निबद्धं स्यात्, ततः सोऽपि गृहस्थो भण्यते - निरीक्षस्व एतद्वत्रं सर्वतः, एवं च यदि तेन मण्यादि दृष्टं ततो गृहीतं, अथ न दृष्टं ततः साधुरेव दर्शयति एनमपनयेति, आह-गृहिणः कथिते कथमधिकरणं न भवति ?, उच्यते, कथिते स्तोकतर एव दोषः, अकथिते तु महानुड्डाहादिः स्यादिति ॥ अथ यादृशे वस्त्रे लब्धे शुभं भवति यादृशे चाशुभं भवतीत्येतदाह'अंजणे' त्यादि, अञ्जनं-सौवीरा जनप्रभृतिकं तैलकज्जलाञ्जनप्रभृति वा खजनं - दीपमलः कर्दमः - पङ्कस्तैर्लिप्ते - खरण्टिते वस्त्रे, तथा मूष| कैरुपलक्षणत्वात्कंसारिकादिभिश्च भक्षिते तथाऽग्निना विशेषेण दग्धे तथा तुण्णिते तुन्नकारेण स्वकलाकौशलतः पूरितच्छिद्रे तथा कुट्टितेरजककुट्टनेन पतितच्छिद्रे तथा पर्यवै:- पुराणादिभिः पर्यायैर्लोढे-युक्ते, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्ते इत्यर्थः एवंविधे वस्त्रे गृहीते सति भवति विपाकः - परिणामः शुभोऽशुभो वा, इयमत्र भावना - गृहीतस्य वस्त्रस्य नव भागाः कल्प्यन्ते, तत्र च केषुचिद्भागेषु
Jain Education International
For Private & Personal Use Only
१२५ व
स्त्रग्रहण
विधिः
गा. ८४९
५३
॥ २४७ ॥
www.jainelibrary.org