________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ २४६ ॥
अयं हि शब्दमर्थेन विशेषयति, अर्थवान्नैयत्ये व्यवस्थापयतीति भावः, यथा स एव तत्त्वतो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति न शेषः, तथा अर्थ शब्देन विशेषयति, शब्दवशात्तच्छब्दवाच्यमर्थं प्रतिनियतं व्यवस्थापयतीति भावः, यथा या घटशब्दवाच्यत्वेन प्रसिद्धा चेष्टा सा घटनात् घट इति व्युत्पत्त्यर्थपरिभावनाबलात् योषिदादिमस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा द्रष्टव्या न तु स्थानभर - णक्रियारूपा, ततश्च यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव स्वरूपतो वर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति न शेषकालं, यथोदकाद्याहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावान् घटो घटशब्दवाच्यो न शेषो घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवत्, तथा घटशब्दोऽपि तत्त्वतः स एव द्रष्टव्यो यश्चेष्टावन्तमर्थं प्रतिपादयति न शेषः, शेषस्य स्वाभिधेयार्थशून्यत्वात् एवं चैष व्युत्पत्तिनिमित्तार्थास्तित्वभूषितमेव तात्त्विकं शब्दमभिलपति य एव पञ्चेन्द्रियत्रिविधबलादिरूपान् दशविधान् प्राणान् धारयति स एव नारकादिरूपः सांसारिकः प्राणी जीवशब्दवाच्यो न सिद्धः, सूत्रोक्तस्वरूपप्राणधारणलक्षणव्युत्पत्तिनिमित्तासम्भवात्, सिद्धस्त्वात्मादिशब्दवाच्यः, अतति - सातत्येन गच्छति तांस्तान् ज्ञानदर्शनसुखादिपर्यायानित्याद्यात्मादिशब्दव्युत्पत्तिनिमित्तसम्भवादिति ७ ||८४७ || सम्प्रत्येतेषामेव नयानां प्रभेदसङ्ख्यादर्शनार्थमाह-'एक्केके 'त्यादि, नया मूलभेदापेक्षया यथोक्तरूपा नैगमादयः सप्त, एकैकश्च प्रभेदतः शतविधः, ततः सर्वभेद्गणनया सप्त नयशतानि भवन्ति, अन्योऽपि चादेशो - मतान्तरं पश्चैव शतानि नयानां भवन्तीति, तथाहि - शब्दसमभिरूढैवम्भूतानां त्रयाणामपि नयानां शब्दपरत्वेनैकत्वविवक्षणात् पञ्चैव मूलनयाः, प्रत्येकं च शतप्रभेदत्वे पञ्च शतानीति, अपिशब्दात् षट् चत्वारि शतानि द्वे वा शते, तत्र षट् शतान्येवं - नैगमः सामान्यप्राही सङ्घदे प्रविष्टो विशेषग्राही तु व्यवहारे, ततः षडेव मूलनयाः, एकैकश्च प्रभेदतः शतभेद इति षट् शतानि तथा सङ्ग्रहव्यवहारऋजुसूत्रशब्दा इति चत्वार एव मूलनयाः एकैकश्च शतविध इति चत्वारि शतानि शतद्वयं तु
Jain Education International
For Private & Personal Use Only
१२४ नयभेदाः गा. ८४७-८
॥ २४६ ॥
www.jainelibrary.org