SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ SAROKAR.KOMर वार्थममिमन्यते, यथा घटनाद् घटः, विशिष्टा काचनापि या चेष्टा युवतिमस्तकाद्यारोहणादिलक्षणा सा परमार्थतो घटशब्दवाच्या, तद्वत्यर्थे पुनर्घटशब्दः प्रवर्तते उपचारात्, एवं 'कुट कौटिल्ये' कुटनात् कुटः, अत्र पृथुबुनोदरकम्बुप्रीवाद्याकारकौटिल्यं कुटशब्दवाच्यं, तथा 'उभ उंभ पूरणं' कु:-पृथिवी तस्यां स्थितस्य उम्भनात्-पूरणात्कुम्भः, अत्र यत् पृथिव्यां स्थितस्य पूरणं तत्कुम्भशब्दवाच्यं, एवं सर्वेषामपि पर्यायशब्दानां नानात्वं प्रतिपद्यते, वदति च-न शब्दान्तराभिधेयं वस्तु द्रव्यं पर्यायो वा तदन्यशब्दवाच्यवस्तुरूपता सङ्क्रामति, न खलु पटशब्दवाच्योऽर्थो जातुचिदपि घटशब्दवाच्यवस्तुरूपतामास्कन्दति तथाऽनुपलम्भात् आस्कन्दने वा वस्तुसाकर्यापत्तिः, तथा च सति सकललोकप्रसिद्धप्रतिनियतविषयप्रवृत्तिनिवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः, ततो घटादिशब्दवाच्यानामर्थानां कुटादिशब्दवाच्यार्थरूपताऽना-18 स्कन्दनान्न कुटादयः शब्दा घटाद्यर्थवाचका इति विमिन्नार्थाः पर्यायशब्दाः, प्रमाणयति च-इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः शब्दास्ते ते विभिन्नार्थाः यथा घटपटशकटादिशब्दाः, मिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा इति, यत्पुनरविचारितप्रतीतिबलादेकार्थाभिधायकत्वं पर्यायशब्दानां प्रतिपाद्यते, तदसमीचीनमतिप्रसङ्गात् , तथाहि-यदि युक्तिरिक्ताऽपि प्रतीतिः शरणीक्रियते तर्हि मन्दमन्दप्रकाशे |दवीयसि देशे संनिविष्टमूर्तयो विभिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकताकारतामाबिभ्राणाः प्रतीतिपथमवतरन्तीत्येकतयैव तेs| भ्युपगन्तव्याः, न चैतदस्ति, विविक्ततत्स्वरूपग्राहिप्रत्यनीकप्रत्ययोपनिपातबाधितत्वेन पूर्वप्रतीतेर्विविक्तानामेवैतेषामभ्युपगमात् , एवमन्यत्रापि भावनीयं, अन्यच्च-शब्दनय! यदि त्वया परस्परमर्थतो भिन्नत्वाल्लिङ्गवचनभिन्नानां शब्दानां भिन्नार्थता व्यवहियते ततः पर्या-18 यशब्दानामपि किं न विभिन्नार्थताव्यवहारः क्रियते ?, तेषामपि परस्परमर्थतो भिन्नत्वात्तस्मान्नैकार्थवाचिनः पर्यायध्वनय इति ६ । तथा |एवंशब्दः प्रकारवचनः एवं-यथा व्युत्पादितस्तं प्रकारं भूतः-प्राप्त एवम्भूतः शब्दः तत्समर्थनप्रधानो नयोऽप्येवम्भूतः उपचारात्, Jain Education Inter For Private Personal Use Only Surjainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy