SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ % % १२४ नय. भेदाः गा. ८४७-८ - 9-7 प्रव० सा० शब्दः, शब्दस्य यो वाच्योऽर्थः स एवं येन नयेन तश्यतो गम्यते न शेषः स नय उपचारात् शब्द इत्युच्यते, अस्य च द्वितीयं नाम रोद्धारे साम्प्रत इति, साम्प्रतवस्त्वाश्रयणात् साम्प्रतः, तथाहि-एषोऽपि ऋजुसूत्रनय इव साम्प्रतमेव वस्त्वभ्युपगच्छति नातीतमनागतं वा, तत्त्वज्ञा. नापि वर्तमानमपि परकीयं, अपि च-निक्षेपचिन्तायां भावनिक्षेपमेव केवलमेष मन्यते न नामादीन निक्षेपान , तथा च नामादिनिक्षेपनवि० | निराकरणाय प्रमाणमाह-नामस्थापनाद्रव्यरूपा घटा न घटाः घटकार्यकारित्वाभावात् यद् घटकार्यकारि न भवति तन्न घटो यथा पट स्तथा चामी घटा घटकार्यकारिणो न भवन्ति तस्मान्न घटा इति नामादिघटानां घटत्वाभावः, इतश्च घटत्वाभावस्तल्लिङ्गादर्शनात् , न खलु ॥२४५॥ नामादिघटेषु घटलिङ्गं पृथुबुनोदराद्याकाररूपं जलधारणरूपं वा किमप्युपलभामहे, अनुपलभमानाश्च तेषु कथं घटव्यपदेशप्रवृत्तिमिच्छामः ?, अपि च-नामादीन घटान घटत्वेन व्यपदिशत ऋजुसूत्रस्य प्रत्यक्षविरोधः, अघटरूपतया पटादीनामिव तेषां प्रत्यक्षत उपलभ्यमानत्वात् । अन्यच्च एष लिङ्गवचनभेदाद्वस्तुनो भेदं प्रतिपद्यते, यथा अन्य एव तटीशब्दस्य वाच्योऽर्थः अन्य एव तटशब्दस्य पुल्लिंगस्य, अपर एव च नपुंसकलिङ्गस्य, तथा अन्य एव गुरुरित्येकवचनवाच्योऽर्थः अन्य एव च गुरव इति बहुवचनवाच्यः, ततो न बहुवचनवाच्योऽर्थ एकवचनेन वक्तुं शक्यते, नाप्येकवचनवाच्यो बहुवचनेन, तथा न पुंल्लिङ्गार्थो नपुंसकलिङ्गेन वक्तुं शक्यः नापि स्त्रीलिङ्गेन नापि नपुंसकः पुंलिङ्गेन स्त्रीलिङ्गेन वा नापि स्त्रीलिङ्गः पुंल्लिङ्गेन नपुंसकलिङ्गेन वा, अर्थाननुयायितया तेषामर्थतो भिन्नत्वात् , तथा चात्र प्रयोग:-ये पर स्परमर्थतोऽननुयायिनस्ते भिन्नार्था इति व्यवहर्तव्याः यथा घटपटादिशब्दाः, परस्परमर्थतोऽननुयायिनश्च लिङ्गवचनभेदभिन्नाः शब्दा ४ इति, ये विन्द्रशक्रपुरन्दरादयः शब्दाः सुरपतिप्रभृतिलक्षणमेकमभिन्नलिङ्गवचनमधिकृत्यामिन्नलिङ्गवचनास्तेषाममिन्नोऽर्थ इत्येकार्थता ५ तथा सम्-एकीभावेन अमिरोहति-व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ यः स सममिरूढः, एष हि पर्यायशब्दानामपि प्रविभक्तमे 145441764 ॥२४५॥ Jain Education International For Private Personal Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy