SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भावसम्पादितसकलसत्ताकं अतस्तमेव साक्षात्कर्तुमल मित्यादि, तदपि बालप्रलपितं, प्रत्यक्षं हि नाम तेन सम्पादितसत्ताकमुच्यते यदुत्पन्नं सत्प्रत्यक्षं साक्षात् करोति, कुरुते च प्रत्यक्षं साक्षात् घटपटादिरूपं विशेषं न सङ्ग्रहनयसम्मतं सामान्यं, न च विशेषो घटपटादिरूपोऽभावो भावात्मकत्वात्, ततो नार्थक्रियाशक्ति विकल इत्यदोषः, ततो विशेष एव प्रत्यक्षादिप्रमाणप्रसिद्धो न सामान्यमिति सामान्यामह एव त्याज्यो न विशेषाग्रहः, किश्व-यदेवार्थक्रियाकारि तदेव परमार्थसत्, न च सामान्यं दोहादिक्रियासूपयुज्यते किन्तु | विशेषा एव गवादय: ततस्त एव तात्त्विकाः न सामान्यमिति, एष च व्यवहारनयो लोकसंव्यवहारपरः ततो यदेव लोकोऽभिमन्यते तदेवैषोऽपि न शेषं सन्तमपि, लोकश्च भ्रमरादौ परमार्थतः पञ्चवर्णाद्युपेतेऽपि कृष्णवर्णादित्वमेव प्रतिपन्नः, तस्य स्पष्टतयोपलभ्यमानत्वात्, तत एषोऽपि तदनुयायितया तदेवेच्छति न शेषान् सतोऽपि शुकादीन् वर्णानिति ३ । तथा ऋजु - प्रगुणमकुटिलमतीतानागतपरकीयवक्रपरित्यागाद्वर्तमानक्षणविवर्ति स्वकीयं च सूत्रयति - निष्टङ्कितं दर्शयतीति ऋजुसूत्रः, यदिवा ऋजुश्रुत इति शब्दसंस्कारः, तत्र ऋजु :पूर्वोक्तवक्रविपर्ययादभिमुखं श्रुतं - ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात्, तथाहि अयं मन्यते यदतीतमनागतं वा तद्यथाक्रमं विनष्टत्वात् अलब्धात्मलाभाच्च नार्थक्रियासमर्थं नापि प्रमाणगोचरोऽथ चार्थक्रियासमर्थ प्रत्यक्षादिप्रमाणपथमवतीर्णं वस्तु न शेषं, अन्यथा शशशृङ्गादेरपि वस्तुत्वप्रसक्तेः, ततोऽर्थक्रियासामर्थ्यविकलत्वात् प्रमाणपथातीतत्वाच्च नातीतमनागतं वा वस्तु, यदपि च परकीयं वस्तु तदपि परमार्थतोऽसत् निष्प्रयोजनत्वात् परधनवत् एष च ऋजुसूत्रो वार्तमानिकं वस्तु प्रतिपद्यमानो लिङ्गवचनभिन्नमप्येकं प्रतिपद्यते, | तत्रैकमपि त्रिलिङ्गं यथा तटस्तटी तटं तथैकमपि एकवचन द्विवचन बहुवचन वाच्यं यथा गुरुर्गुरू गुरवः गोदौ ग्रामः आपो जलं दाराः कलत्रमित्यादि, निक्षेपचिन्तायां च नामस्थापनाद्रव्यभावरूपांश्चतुरोऽप्यसौ निक्षेपान भिमन्यते ४ । तथा शब्यते - प्रतिपाद्यते वस्त्वेनेनेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy