________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
१२४ नयभेदाःगा. ८४७-८
॥२४४॥
भवेयुरव्यतिरिक्ता वा? गत्यन्तराभावात् , प्रथमपक्षे न सन्त्येव विशेषाः, भावाव्यतिरिक्तत्वादाकाशकुशेशयवत् , अथ द्वितीयः पक्षस्तर्हि विशेषा अपि भावमात्रमेव, तथाहि-भावमात्रं विशेषास्तव्यतिरिक्तत्वात् , इह यद्यस्माव्यतिरिक्तं तत्तदेव, यथा भावस्य स्वरूपं, अव्य
तिरेकिणश्च भावाद्विशेषा इति, किं च-विशेषाग्रहो विशेषेण त्याज्यो विशेषव्यवस्थापकप्रमाणाभावात् , तथाहि-भेदरूपा विशेषाः, न च & किञ्चन प्रमाणं भेदमवगाहते, प्रत्यक्षं हि भावसम्पादितसत्ताकं अतस्तमेव साक्षात्कर्तुमलं नाभावं, अभावस्य सकलशक्तिविरहरूपतया
तदुत्पादने व्यापाराभावात् , अनुत्पादकस्य च साक्षात्करणे सर्वसाक्षात्करणप्रसङ्गः, तथा च सति विशेषाभावात्सर्वोऽपि द्रष्टा सर्वदर्शी स्यात् , अनिष्टं चैतत् , तस्माद्भावग्राहकमेव प्रत्यक्षमेष्टव्यं, स च भावः सर्वत्राविशिष्टस्तथैव तेन ग्राह्य इति न प्रत्यक्षाद् विशेषावगतिः, नाप्यनुमानादेः, प्रत्यक्षपूर्वकत्वाच्छेषप्रमाणपटलस्य, ततः सामान्यमेव परमार्थतः सत् न विशेषा इति सङ्ग्रहः २ । तथा व्यवहरणं व्यवहारः, यदिवा विशेषतोऽवहियते-निराक्रियते सामान्यमनेनेति व्यवहारः, विशेषप्रतिपादनपरो व्यवहारनय इत्यर्थः, स ह्येवं विचारयति-यदि सदित्युक्ते घटपटाद्यन्यतमो विशेष एव कोऽप्यनिर्दिष्टस्वरूपः प्रतीयते न सङ्घहनयसम्मतं सामान्यं तस्यार्थक्रियासामर्थ्य विकलतया | सकललोकव्यवहारपथातीतत्वात् ततो विशेष एवास्ति न सामान्यं, इतश्च न सामान्यमुपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेः, इह यदु । पलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसदिति व्यवहर्तव्यं, यथा क्वचित्केवलभूतलप्रदेशे घटो,. नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सत् सङ्कहनयसम्मतं सामान्यमिति स्वभावानुपलब्धिः, अपि च-सामान्यं विशेषभ्यो व्यतिरिक्तं स्यादव्यतिरिक्तं वा ? स्यात्, यद्याद्यः | पक्षस्तर्हि सामान्यस्याभाव एव, विशेषव्यतिरिक्तस्य सामान्यस्थासम्भवात् , न हि मुकुलितार्धमुकुलितादिविशेषविकलं किमप्याकाशकुसुममस्तीति परिभावनीयमेतत् , अथाव्यतिरिक्तं ततो विशेषा एव न सामान्यं तद्व्यतिरिक्तत्वात्तत्स्वरूपवत् , यदपि चोक्तं 'प्रत्यक्षं
॥२४४॥
Jan Education Internal
For Private
Personel Use Only
www.jainelibrary.org