SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ME%%AMAMROSAROKAR मुक्ताफलवत् , ये चावान्तरविशेषा घटपटादीनामितरेतरव्यावर्तनक्षमास्ते आबालगोपालाङ्गनादिजनानामपि प्रत्यक्षाः, एते च महासामान्यावान्तरसामान्यांत्यविशेषावान्तरविशेषाः परस्परविसकलितस्वरूपास्तथैव प्रतिभासमानत्वात् , तथाहि-न सामान्यपाहिणि विज्ञाने विशेषावभासः नापि विशेषग्राहिणि सामान्यावभासः, ततः परस्परविनिटुंठितस्वरूपाः, तथा चात्र प्रयोग:-यद्यथाऽवभासते तत्तथाऽभ्युपगन्तव्यं, यथा नीलं नीलतया, अवभासन्ते च ते परस्परविसकलितस्वरूपा इति नैगमः। नन्वेष यदि सामान्यविशेषाभ्युपगमपरस्तर्हि | यत्सामान्यं तद् द्रव्यं ये तु विशेषास्ते पर्याया इति परमार्थतो द्रव्यास्तिकपर्यायास्तिकनयमतावलम्बित्वात् सम्यग्दृष्टिरेव प्रतिपन्नजिनमतत्वात्तथाविधसम्यग्जैनसाधुवत् ततः कथं मिथ्यादृष्टिः?, तदेतद्युक्तं, प्रतिपन्नजिनमतत्वासिद्धेः, परस्परविसंकलितसामान्यविशेषाभ्युपगमाव , तथाहि-एष परस्परमेकान्ततो विभिन्नावेव सामान्यविशेषाविच्छति, गुणगुणिनामवयवावयविनां क्रियाकारकाणां चात्य|न्तभेदं, न पुन नसाधुरिव सर्वत्रापि भेदाभेदावतो मिथ्यादृष्टिः कणादवत्, कणादेनापि हि सकलमप्यात्मीयं शास्त्रं द्वाभ्यामपि द्रव्यास्तिकपर्यायास्तिकनयाभ्यां समर्थितं तथापि तन्मिध्यात्वं, स्वविषयप्रधानतया परस्परमनपेक्षयोः सामान्वविशेषयोरभ्युपगमात् , उक्तं च-"जं सामनविसेसे परोप्परं वत्थुतो य से मिन्ने । (ग्रन्थानं १००००) मन्नइ अञ्चंतमतो मिच्छादिट्ठी कणादोव्व ।। १॥ दोहिवि नएहिं नीयं सत्यमुलूगेण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अन्नोन्ननिरवेक्खा ॥ २॥” [यत् सामान्यविशेषौ परस्परं वस्तुतश्च तौ मिन्नौ । मन्यते अत्यन्तं अतः कणाद इव मिथ्यादृष्टिः ॥१॥ द्वाभ्यामपि नयाभ्यामुलूकेन शास्त्रं नीतं तथापि मिथ्यात्वं । यत् स्वविषयप्रधानत्वात् अन्योऽन्यनिरपेक्षौ (इति वदति) ॥२॥] १। तथा सङ्गृह्णाति-अशेषविशेषातिरोधानद्वारेण सामान्यरूपतया |समस्तं जगदादत्ते इति सङ्ग्रह,, तथाहि-अयमेवं मन्यते-सामान्यमेवैकं तात्त्विकं न विशेषाः, ते हि भावलक्षणसामान्याव्यतिरिक्ता वा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy