________________
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
१२३ शीलाङ्गसहस्राणि १८ गा.८३९४६
॥२४२॥
संगुत्तो । पुढवीकायारंभं खंतिगुणे वट्टमाणोऽहं ॥ १ ॥ एवं महवगुणे वट्टमाणोऽहं २ । अजवगुणे वट्टमाणोऽहं ३ । यावर्द्धभगुणे वट्टमाणो- | ऽहं १० । एवमकायादिष्वपि गाथा भणनीयाः । तथा कारेमि न मणसाहारसन्नविरओ उ सोयसंगुत्तो । पुढवीकायारंभं खंतिगुणे वट्टमाणोऽहं ॥ १ ॥' इत्यादि तथा-'नऽणुमन्ने मणसाहारसन्नविरओ उ सोयसंगुत्तो । पुढवीकायारंभं खंतिगुणे वट्टमाणोऽहं ॥ १॥ इत्यादि । नन्वेककयोगे एवाष्टादश सहस्राणि स्युर्यदा तु ब्यादिसंयोगजन्या भङ्गका इह गृह्यन्ते तदा बहुतराः स्युः, तथाहि-एकट्यादिसंयोगेन योगेषु सप्त विकल्पाः, एवं करणेष्वपि, संज्ञासु पञ्चदश, इन्द्रियेष्वेकत्रिंशत् , भूम्यादिषु त्रयोविंशत्यधिकं सहस्रं, एवं क्षमादिष्वपीति, एषां च राशीनां परस्परगुणने द्वे कोटीसहस्रे त्रीणि कोटीशतानि चतुरशीतिः कोटयः एकपञ्चाशल्लक्षाणि त्रीणि षष्टिः सहस्राणि द्वे शते पञ्चषष्टिश्चेति (२३८४५१६३२६५) ततः किमित्यष्टादशैव सहस्राण्युक्तानि ?, उच्यते, यदि श्रावकधर्मवदन्यतरभङ्गकेन सर्वविरतिप्रतिपत्तिः स्यात्तदा युज्येत तद्भणनं, न चैवमेकतरस्यापि शीलाङ्गभङ्गकस्य शेषसद्भाव एव भावादन्यथा सर्वविरतिरेव न स्यादिति, उक्तं च
-"इत्थ इमं विन्नेयं अइदंपजं तु बुद्धिमंतेहिं । एक्कंपि सुपरिसुद्धं सीलंग सेससब्भावे ॥ १॥ अस्या व्याख्या-अत्र-शीलाङ्गाधिकारे इदं विज्ञेयमैदम्पर्य-तत्त्वं बुद्धिमद्भिः पुरुषः, यदुत-एकमपि सुपरिशुद्धं शीलानं शेषसद्भावे-तदपरशीलाङ्गसत्तायामेव, तदेवं समुदितान्येवैतानि भवन्तीति न ब्यादिसंयोगभङ्गकोपादानं अपि तु सर्वपदान्त्यभङ्गस्येयमष्टादशसहस्रांशतोक्ता, यथा त्रिविधं त्रिविधेनेत्यस्य नवांशतेति, अत एव श्रावकाणामेतानि न भवन्येव, किन्तु मनःस्थैर्यसम्पादनार्थ तेऽप्यनुमतिप्रधानेन स्वामिलापेन गाथोच्चारणमात्रमासूत्रयन्ति, अभिलापश्चायं-न करेंती मणसाहारसन्नविरया उ सोयसंगुत्ता । पुढवीकायारंभं धन्ना जे खंतिगुणजुत्ता १॥१॥ एवं धन्ना
॥२४२॥
Jain Education International
For Private 3 Personal Use Only
www.jainelibrary.org