SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ kickcX1960%" व्यवस्थिते त्रिचतुःपञ्चदशदशसङ्ख्ये मूलपदकलापे । भावना' भङ्गप्रकाशना 'एषा' अनन्तरवक्ष्यमाणलक्षणा शीलाङ्गनिष्पत्तिविषयेति ॥८४१ ॥ ८४२ ॥ तामेवाह न करेई'त्यादि, न करोतीति करणलक्षणः प्रथमयोग उपात्तः, मनसेति प्रथमं करणं, "आहारसन्नविप्पजढगो'त्ति आहारसंज्ञाविहीणः सन् , अनेन च प्रथमसंज्ञा तथा नियमेन अवश्यन्तया श्रोत्रेन्द्रियसंवरणो-निरुद्धरागादिमच्छ्रोत्रेन्द्रियप्रवृत्तिः, अनेन च प्रथमेन्द्रियं, एवंविधः सन् किं न करोतीत्याह-पृथिवीजीवान् आरम्भविषयानिति शेषः, पृथिवीजीवारम्भं न | करोतीति तात्पर्यार्थः, अनेन च प्रथमजीवस्थानं, क्षान्तिसंयुक्त:-क्षान्तिसम्पन्नः, अनेन च प्रथमश्रमणधर्मभेद उक्त इति ॥८४३॥ तदेवमेकं शीलाङ्गमाविर्भावितमिति, अथ शेषाण्यपि तान्यतिदेशतो दर्शयन्नाह–इये'त्यादि, 'इति' अनेनैव पूर्वोक्तामिलापेन मार्दवादियोगात्-मार्दवार्जवादिपदसंयोगेन 'पृथिवीकाये' पृथिवीकायमाश्रित्य पृथिवीकायारम्भमित्यमिलापेनेत्यर्थः सम्भवन्ति-स्युर्दश भेदा-दश शीलविकल्पाः, अप्कायादिष्वपि नवसु स्थानेषु, अपिशब्दो दशेत्यस्येह सम्बन्धनार्थः, इत्यनेन क्रमेण एते सर्वेऽपि भेदाः 'पिंडियं तु'त्ति प्राकृतत्वात् पिण्डिताः पुनः सन्तः अथवा पिण्डितं-पिण्डमाश्रित्य शत-शतसङ्ख्याः स्युरिति, श्रोत्रेन्द्रियेणैतत् शतं लब्धं, शेषैरपि चक्षुरादिभिर्यद्-यस्मादिदं शतं प्रत्येकं लभ्यते, ततो मिलितानि पञ्च शतानि स्युः, पञ्चत्वादिन्द्रियाणां, एतानि चाहारसंज्ञायोगलब्धानि इति, एवं शेषाभिरपि भयसंज्ञादिभिस्तिसृभिः पञ्च पञ्च शतानि स्युः, सर्वमीलने च सहस्रद्वयं स्यात् , यतश्चतस्रः संज्ञा इति, एतत्स-| हस्रद्वितयं मनोयोगेन लब्धं, 'वयमाइएसुत्ति वागाद्योः-वचनकाययोः प्रत्येकमेतत्सहस्रद्वयं, इत्येवं षट् सहस्राणि, त्रिसङ्घयत्वात् मनोवचनकाययोगानां, एतानि न करोतीत्यनेन लब्धानि, शेषयोरपि च कारणानुमत्योः षट् षट् सहस्राणि स्युः, एते अनन्तरोक्ताः सर्वेऽपि शीलभेदाः पिण्डिताः सन्तोऽष्टादश सहस्राणि भवन्तीति । आलापकगाथाश्चैवमत्र करणीयाः-'न करेमि मणसाऽऽहारसन्नविरओ उ सोय Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy